SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ २२६ - रायचन्द्रजैनशास्त्रमाला -- [अ० २, गा० ७३. पात्तकादाचित्कवैचित्र्यं चित्रगुणयोगित्वात्परमाणोरेकाघेकोत्तरानन्तावसानाविभागपरिच्छेदव्यापि स्निग्धत्वं वा रूक्षत्वं वा भवति ॥ ७२॥ अथात्र कीदृशास्निग्धरूक्षत्वात्पिण्डत्वमित्यावेदयतिणिद्धा वा लुक्खा वा अणुपरिणामा समा व विसमा वा। समदो दुराधिगा जदि बज्झन्ति हि आदिपरिहीणा ॥ ७३ ।। स्निग्धा वा रूक्षा वा अणुपरिणामाः समा वा विषमा वा । समतो व्यधिका यदि बध्यन्ते हि आदिपरिहीनाः ॥ ७३ ॥ समतो व्यधिकगुणाद्धि स्निग्धरूक्षत्वाद्वन्ध इत्युत्सर्गः, स्निग्धरूक्षद्व्यधिकगुणत्वस्य द्रव्येऽपि स्निग्धत्वं रूक्षत्वं च बन्धकारणभूतं पूर्वोक्तजलादितारतम्यशक्तिदृष्टान्तेनैकगुणसंज्ञाजघन्यशक्तिमादिं कृत्वा गुणसंज्ञेनाविभागपरिच्छेदद्वितीयनामाभिधेयेन शक्तिविशेषेण वर्धते । किं पर्यन्तं, यावदनन्तसंख्यानम् । कस्मात् । पुद्गलद्रव्यस्य परिणामित्वात् परिणामस्य वस्तुस्वभावादेव निषेधितुमशक्यत्वादिति ॥ ७२ ॥ अथात्र कीदृशास्निग्धरूक्षत्वगुणात् पिण्डो भवतीति प्रश्ने समाधानं ददाति-बझंति हि वध्यन्ते हि स्फुटम् । के। कर्मतापन्नाः अणुपरिणामा अणुपरिणामाः । अणुपरिणामशब्देनात्र परिणामपरिणता अणवो गृह्यन्ते। कथंभूताः। णिद्धा वालुक्खा वा स्निग्धपरिणामपरिणता वा रूक्षपरिणामपरिणता वा । पुनरपि किं विशिष्टाः समा व विसमा वा द्विशक्तिचतुःशक्तिषट्शक्त्यादिपरिणतानां सम इति संज्ञा। त्रिशक्तिपञ्चशक्तिसप्तशत्तयादिपरिणतानां विषम इति संज्ञा। पुनश्च किं रूपा । समदो दुराधिगा जदि समतः समसंख्यानात्सकाशाद् द्वाभ्यां गुणाभ्यामधिका यदि चेत् । कथं द्विगुणाधिकत्वमितिचेत् । एको द्विगुणस्तिष्ठति द्वितीयोऽपि द्विगुण इति द्वौ समसंख्यानौ तिष्ठतस्तावत् एकस्य विवक्षितद्विगुणस्य द्विगुणाधिकत्वे कृते सति सः चतुर्गुणो भवति शक्तिचतुष्टयपरिणतो भवति । तस्य चतुर्गुणस्य पूर्वोक्तद्विगुणेन सह बन्धो भवतीति । तथैव द्वौ त्रिशक्तियुक्तौ तिष्ठतस्तावत्, तत्राप्येकस्य त्रिगुणशब्दाभिधेयस्य त्रिशक्तियुक्तस्य परमाणोः शक्तिद्वयमेलापके कृते सति पञ्चगुणत्वं भवति । तेन पञ्चगुणेन सह पूर्वोक्तत्रिगुणस्य वन्धो भवति । एवं द्वयोर्द्वयोः स्निग्धयोर्द्वयोर्द्वयो रूक्षयोर्द्वयोर्द्वयोः स्निग्धरूक्षयोर्वा समयोः विपमयोश्च द्विगुणाधिकरवे सति कहा गया है । जैसे वकरी, गाय, भैंस, ऊँटनीके दूधमें अथवा घी वगैरहमें बढ़ते बढ़ते चिकनाईका भेद होता है, और जैसे धूलि, राख, रेत इत्यादि वस्तुओंमें रूखापन अधिक अधिक होता है, उसी प्रकार स्निग्ध रूक्ष गुणके अनंतभेद जानने चाहिये ।। ७२ ॥ आगे किस तरहके स्निग्ध, रूक्ष, गुणके परिणमनसे बंध होकर पिंड हो जाता है, यह दिखलाते है-[अणुपरिणामाः] परमाणुके पर्यायभेद [लिग्धा वा ] स्निग्ध होवें, [वा] अथवा [रुक्षाः] रूखे होव, [समा वा] दो चार छह इत्यादि अंशोंकी गिनतीकर . समान हो, [ विषमा चा] अथवा तीन पाँच सात इत्यादि अंशोंकर विपम हो; परंत
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy