SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ भव- भावना प्रकरणे ततः केवलिना प्रोक्तं, युक्तमेतद् भवादृशाम् । व्रज त्वं तत्र मत्साधुसार्थमासाद्य सत्वरम् ॥१०॥ ततो दृष्टो महीपालश्चन्द्रसेनाभिधं निजम् । पुत्रं राज्ये समादिश्य, दत्त्वा दानमनल्पकम् ॥११॥ धनंजयादिकैर्देवैमण्डलेशादिकैनरैः। 'कृते महोत्सवे हृष्टैर्जिनचैत्येषु सर्वतः ॥१२॥ व्रतं जग्राह तस्यान्ते, विधिना योगिनां पतेः । समं सामन्तमन्त्र्यायैलॊकैरन्तःपुरेण च ॥१३॥ ततो मुनीशनिर्दिष्टसम्यग्मार्गेण निर्वृतिम् । गतः पुरीमसौ सर्वमोहव्यापारदूरगाम् ॥१४॥ ॥ इति नृपविक्रमराजचरितम् ॥ विभवादि सम्पन्नानामपि |जरासंगमजन्य दुःखानि अन्ये तु विभवादिसम्पन्ना अपि जरासमागमेन दूयन्त इति दर्शयति अन्ने उण सव्वंगं गसिया जररक्खसीइ जायंति। रमणीण सज्जणाण य हसणिज्जा सोअणिज्जा य ॥२६७॥ अन्ये तु तरुणा विभविनो रूपादिगुणान्विता अपि भूत्वा पश्चादकस्माजराराक्षसीग्रस्ता रमणीनां * १. कृतो महोत्सवो-जे० ।। २. प्रभोः-वा० ॥ || २५२॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy