SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अथ यथाप्रतिज्ञातमेवाह एगिदियविगलिंदियपंचिंदियभेयओ तहिं जीवा । परमत्थओ य तेसिं सरूवमेवं विभावेज्जा ॥ एकेन्द्रिया:-पृथिव्यप्तेजोवायुवनस्पतिकायरूपाः तत्र पृथिवीकायिकाः द्विविधाः-सूक्ष्मा बादराश्च । तत्र सूक्ष्माः सर्वलोकव्यापिनः सातिशयज्ञानगम्याः, बादरास्तु रत्नप्रभादिसप्तपृथिव्याश्रिताः भवननगरविमानेषत्प्रारभाराश्रिताश्च; एवमप्कायिकादयोऽपि सूक्ष्मवादरभेदभिन्नाः सर्वेऽपि द्रष्टव्याः। तत्र सूक्ष्मा अप्तेजोवायवः सूक्ष्मपृथ्वीकायिकवद्वक्तव्याः, वनस्पतयोऽपि सूक्ष्माः तथैव, केवलमेते एकस्मिन्नपि शरीरे अनन्ता उत्पद्यन्ते अत एते साधारणशरीराः, अन्ये तु संसारिणो जीवाः सर्वेऽपि बादरनिगोदान् मुक्त्वा प्रत्येकशरीरिणोऽसंख्येयाश्च, बादरनिगोदास्तु साधारणशरीराः अनन्ताश्च । बादराप्कायिकास्त्ववश्यायहरतनुहिमकरकमहिकामेघोदकतडागसरित्समुद्राधुदकरूपाः । बादरतेजःकायिकास्तु मुर्मुराङ्गारज्वालोल्मुकादयः । बादरवायुकायिकास्तु ये लोकस्य शुषिरे सर्वत्र वान्ति मन्दपटुपटुतरपटुतमवातोल्युत्कलिकाझंझामंडलिकागुंजावातादयः प्रतीताः बादरवनस्पतयस्तु बादरनिगोदा:
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy