SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ भव भावना प्रकरणे तदेवं नरकगतिमुक्त्वा उपसंहरन् तिर्यग्गतेः सम्बन्धं चोपदर्शयन्नाह - एवं संखेवेणं निरयगई वन्निया तओ जीवा । पाएण होंति तिरिया तिरियगई तेणऽओ वोच्छं । १७८ ॥ एवं संक्षेपेण नरकगतिर्वर्णिता, 'तओ' त्ति तस्याश्च नरकगतेरुदुवृत्ता जीवाः प्रायो-- बाहुल्येन तिर्यञ्चो भवन्ति यतस्तेन कारणेन 'अओ' त्ति अतो- नरकगतिवर्णनादूर्ध्व तिर्यग्गतिं वक्ष्ये, इत्यक्षरघटना | अत्र आह- ननु नरकगतेरुवृत्ताः किमिति बहवस्तिर्यक्षुत्पद्यन्ते, न मनुष्येषु ? उच्यते, नारका मनुष्येषु गर्भजपर्याप्तेष्वेव जायन्ते, ते च संख्यातमात्रा: स्वल्पा एवं सदैव प्राप्यन्ते, नारकास्त्वनु समयमसंख्याता अप्युद्वर्त्तन्ते, अत एकसमयोद्वृत्तानामपि नारकाणां मनुष्येषु स्थानं नास्ति, किं पुनरन्येषां ततो बहवस्तिर्यनूत्पद्यन्ते तेषां नारकेभ्योऽसंख्येयगुणत्वात्, शुभभावेन च मनुष्येषूत्पत्तिः, अशुभभावाश्च ते प्रायो जीवा इति बहवस्तिर्य नृत्पद्यन्त इति । तेनेत्यभिधानाद्यत इत्यर्थान्धं, यत्तदोर्नित्याभिसम्बन्धादिति ॥ ॥ इति नरकगतिभावना समाप्ता ॥ नरकगते रुद् वृत्तानां तिर्यक्षु स्थानम् ॥ १०८ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy