SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ श्रीउपदेशपदे ॥ २८३ ॥ प्रकृति ॥ ५८६ ॥ ३७ ॥ देवतायोजितपिटिका मस्तकेनैव सह संयोजितहत भर्तृनिक्षिपपिटिका गलद्वसारुधिरभृतस्तनपृष्ठा अन्धा सती पलायमाना वनं प्रति, निवर्त्तमाना च पुरं प्रति सज्जाक्षा भवन्ती ॥ ५८७ ॥ ३८ ॥ डिम्भकवृन्दपरिगता खिंस्यमाना जात्योद्घट्टनतो जनेन रुदती करुणस्वरैर्दृष्टा धिग्जातीया सोमाजनकलोकेन । एवं चैवमेव चतुर्थप्रतिषेधो वृत्तः ॥ ५८८ ॥ ३९ ॥ एवमसन्तोषाल्लोभोद्रेकलक्षणाद् विपन्नवहनो विनष्टयानपात्रः समुद्रात् कथंचिदुत्तीर्णो मत्स्याहारस्यायोगोऽसम्यक्प्रयोगस्तस्मादत्यन्तं व्याधिपरिभूतः कुष्ठाभिधानिष्टव्याधिविधुरितः सञ्जातः ॥ ५८९ ॥ ४० ॥ ततस्तेनाकर्णितं यन्निधिः सुतबलिदानं तस्मात्, तत्फलो निधिलाभफलः 'पत्ते' त्ति प्रयुक्तो विधिः पुत्रबलिदानलक्षणः परम्, अफलो वृत्तः । कुत इति चेत्, यतस्तदन्यगृहीतस्तस्मात् पुत्रवलिदायकादन्येन केनचिद् गृहीतः प्रागेव निधिरिति । विज्ञातश्चासौ नगरराजैर्नगरारक्षकैर्यथाऽयं निधानार्थे दत्तपुत्रवलिः ॥ ५९० ॥ ४१ ॥ तत उत्क्षुभ्यमाणो निन्द्यमानो बहुजन धिक्कारितो धिक्कारमानीतो वसनहीनो वस्त्रविकलो दृष्टः कश्चिद्दरिद्रः । ततो जनकलोन प्रतिषेधः पञ्चमेऽपि व्रते परित्यज्यमाने कृतस्तथा यथा प्राच्येष्विति ॥ ५९१ ॥ ४२ ॥ प्राप्तानि ततः सोमाजनकमानुषाणि, एवं पूर्ववत् संविग्नानि प्रतिश्रयसमीपं गणिनीसंनिधानम् । तत्रापि च वैशसमिदं दृष्टमेतैः सोमाजनकमानुषैः, सहसेति ॥ ५९२ ॥ ४३ ॥ वैशसमेव दर्शयति - रात्रौ भुञ्जानो भोजनं कुर्वन् । कैरित्याह- मण्डकवृन्ताकैः कश्चिद् नरः पुमान् । किं कृत्वेत्याह- 'विधुं 'ति वृश्चिकं 'छोढूण' क्षिध्वा मुखेऽदृष्टकमज्ञातमेव । ततो विद्धकस्ताडितस्तेन वृश्चिकेन ॥ ५९३ ॥ ४४ ॥ व्यन्तरजातिविषाद् — भावप्रधानत्वान्निर्देशस्य व्यन्तरजातिविषत्वाद् वृश्चिकस्य, उच्छूनमुखः सम्पन्न संग्रहगाभार्थ: ॥ २८३ ॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy