SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ #प्रत्रयां च करोति । द्वितीयः पुनः दहननामा मायावी शाठ्यवहुलः सन् क्रियायुक्तस्तु प्रत्युपेक्षणाप्रमार्जनादिसामाचारी मम्पन्नस्तथैव ज्वलनवदेव ॥ २७६ ॥२॥ ततः किमित्याह-क्रियया एप आगच्छामीत्यादि प्रतिपद्यापि स्थानादिकरणलक्षणयाऽतिसन्धयते वञ्चयति इतरं ज्येष्ठं भ्रातरम् । किमनाभोगादिनेत्याशंक्याह-मायया तृतीयकपायरूपया तद्गतया तु क्रियागतयैव न पुनः पदार्थप्रज्ञापनादिगतयापि । एवं क्रियावचनेन प्रायो बाहुल्येन कालः प्रवज्यापरिपालनरूपो प्रजति । 'संलेहणमोउ' इति पर्यन्ते च संले सना द्रव्यभावकृशीकरणलक्षणा द्वयोरप्यजनि अनशनं च। ततः सौधर्मदेवलोके ॥ २७७॥३॥ 2 अभ्यन्तरपर्पदि पश्चपल्यायुपौ महर्द्धिको देवौ जातौ । अन्यदा च भगवतो महावीरस्य 'आमलकप्पो सरणे' इति 3. आमलकल्पायां नगर्यामाघशालवने समवसरणं समपद्यत । तत्र च वन्दनार्थं गतयो व्यविधिविपर्ययो नृत्यक्रियाविप-18 र्यासः सजातस्तयोः ॥ २७८ ॥४॥ 2 कथमित्याह-एवं स्त्रीपुरुपादितया विकुर्विष्यामि वैकुर्विकं रूपं करिष्यामीति चिन्तयतः सत एवमेव यथाभिलषित11 मेव तत्र तयोर्मध्ये भवति एकस्य ज्वलनसुरस्य । द्वितीयस्य का वार्तेत्याह-इतरस्य तु द्वितीयस्य पुनर्विपरीतं चिन्तितरू1) पप्रतिकूलं भवति । ततो ज्ञायकपृच्छा जानतो गणधरस्य पृच्छा सम्पन्ना-कथमस्य भगवन् ! विपर्यासो जायते ? | | इति ॥ २७९ ॥ ५॥ भगवत्कथना भगवता प्रज्ञापितं, यथा-मायादोपो वंचनापराधोऽस्य क्रियागतस्तु क्रियागत एव प्राग्भवविहित एप
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy