SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ सरः] भूपतनवादनिरासः 601 सर्वार्थसिद्धिः आगमानुविधायिनांतु सर्वाधारेण ब्रह्मणा *सोपधानं निरुपधानं च विधृतेति।अत एव पृथिव्याधारस्थिरतरकपरक्लूप्तिः नि • आनन्ददायिनी नाभ्युपगम्यते ? इत्यत्राह--आगमानुविधायिनामिति । सोपधानं-- कूर्मदिग्गजनागराजादिशरीरद्वारकम् ; सङ्कल्पमात्रेण च धृतिरित्यर्थः । ये तु शैवाः सामुद्राम्भसि विन्यस्तकर्परस्था तु मेदिनी । संक्षोभं सा तु नायाति तरङ्गावर्तसंकुला ॥ इत्याहुः; तन्मतमनुवदति-अत एवेत्यादिना । भावप्रकाश इति । 1*सोपधानमिति-आदिशेषकमठादितात्पर्येण कटाहबहिरावरणतात्पर्येण च । *निरुपधानामिति । 'वासुदेवः परं ब्रह्म' इत्यारभ्य संकर्षणानिरुद्धादिसृष्टिमभिधाय बिभ्राणः परमां शक्तिं ब्रह्मणो धारणात्मिकाम् । मध्ये समन्तादण्डस्य भूगोलो व्योन्नि तिष्ठति ॥ इति सूर्यसिद्धान्ते उपसंहृतम् । * निरस्तेति-अयं पक्षो भास्करेणापि निरस्तःमूर्तो धर्ता चेद्धरित्यास्ततोन्यः तस्याप्यन्योऽस्यैवमत्रानवस्था । अन्त्ये कल्प्या चेत् किमाघे स्वशक्तिः किं नो भूमेः साष्टमूर्तेश्च मूर्तिः ॥
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy