SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ 602 सव्याख्यसर्वार्थासद्धिसहिततत्वमुक्ताकलाये [जडद्रव्य सर्वार्थसिद्धिः रस्ता। कर्परस्यापि निराधारस्य स्थित्यनुपपत्तेः। चतुरुदधिसंक्षोभसहत्वस्य पृथिव्यामेव कल्पयितव्यत्वात् । '*येच पतनोत्पतनस्वभावभूतचतुष्टयमयत्वान्न पतति नोत्पतति च भूपिण्ड इत्याहुः; तेषामन्यूनानतिरिक्ततादृशावस्थानोचितपरिमाणैर्भूतैरारब्धः परिदृश्यमानमृच्छिलादिविलक्षणश्चागत्याऽन्य एव भूपिण्ड इत्यादिकल्पना केवलमूहमात्रसिद्धा । *अन्ये दक्षिणोत्तरध्रुव आनन्ददायिनी दूषणमाह- कर्परस्यापीति । बाधकं परिहरति-चतुरुदधीति । ये चेतिवायुतेजसोरुत्पतनस्वभावत्वात् भूजलयोः पतनस्वभावत्वात् परस्परकार्यप्रतिबन्धेनावस्थानमित्यर्थः । तेषामिति-दृश्यमानस्य भूपिण्डस्य पृथिवीभूयस्त्वेन भूतान्तरावयवसमत्वादिति भावः । __'उभयोर्भूना ध्रुवयोः विधृतेयमयस्कान्तनित्या भूः । इति ज्योतिर्मतमनूद्य दूषयति-अन्ये इत्यादिना । मरीचिसिद्धान्तं भावप्रकाशः 1*ये चेति-अयं पक्षः उदाहृतज्यौतिषिकग्रन्थेषु नोपलभ्यते । *अन्ये इति-लल्लवराहमिहिरादयः ; यथा मध्येऽयस्कान्तानां यथास्थितोऽयोगुडः खमध्यस्थः । . तद्वदनाधारोऽपि हि सर्वाधारो महीगोळः ॥ (धवृद्धिदतनं भूगोला. २) इति । यद्वत्कदम्बपुष्पग्रन्थिः प्रचितः समन्ततः कुसुमैः । तद्वद्धि सर्वसत्वैः जलजैः स्थलजैश्च भूगोळः ॥ (आर्यभ. गो. ७)
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy