SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ 600 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः तीनामधिकपतनकल्पनं चापहास्यम्। पोतवालुकादिन्यायस्त्विह दुर्वचः उपष्टम्भकादिविशषस्यानभ्युपगमात् । तत्कल्पने च तस्याप्यन्यत्कल्प्यं इत्यनवस्थानात् । वायुविशेषस्योपष्टम्भकत्वकल्पने तेनैव नित्यमपतनमिति किं न रोचते? तदिह युक्तिमात्रशरणानां निराधारापि स्वभावादेव तिष्ठति भूमिः । आनन्ददायिनी पोतवालुकेति । तत्र युक्तं गुरुतरस्यापि पोतस्य पृथुतया जलेन प्रतिबन्धात् पतने वेगाभावः ; न चात्र तथा प्रतिबन्ध इति भावः । नन्वत्राप्युपष्टम्भकमस्त्वित्यत्राह-तत्कल्पने चेति । तथाच गौरवामिति भावः । ननु वायुविशेष उपष्टम्भकनिरपेक्ष उपष्टम्भको भवत्वित्यत्राह-वायुविशेषस्येति । वायुविशेषस्योपष्टम्भकस्य कल्पनापेक्षया स्वभावादवस्थानं कल्प्यताम् ! लाघवात् इत्याह--तदिहेति । भवद्भिः किमिति . भावप्रकाशः 1* स्वभावादेवेति-यथाऽऽह लघ्वार्यभटः - (महासिद्धान्त १६-४) अनिलाधाराः कोचत् केचिल्लोका वसुन्धराधाराः । वसुधा नान्याधारा तिष्ठति गगने स्वशक्त्यैव ॥ इति । भास्कराचार्यैरपि- (शिरामाण. गोला. भुवनको २) भूमेः पिण्डश्शशाङ्कज्ञकविरविकुजेज्यार्किनक्षत्रकक्ष्या वृत्तवृत्तो वृतस्सन् मृदनिलसलिलव्योमतेजो मयोऽयम् । नान्याधारः स्वशक्त्यैव वियति नियतं तिष्ठतीहास्य पृष्ठे निष्ठं विश्वं च शश्वत्सदनुजमनुजादित्यदैत्यं समन्तात् ॥
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy