________________
[ है० ४.३ ८५ ] नवमः सर्गः।
७४७ वरयित्रीमिमां कर्णं तद्देशेत्राटिटत्पिता।
उपायनं प्रेपितवान् गजैरगणितैस्तथा ॥ १६३ ॥ १६३. तत्तस्माद्धेतो. । कर्ण वरयित्रीमी'सन्तीमिमां कन्यामत्र देशे गूर्जरत्राया पिता जयके श्याटिटत्प्रेषितवान् । तथागणितैरसंख्यातैर्गजैः सहोपायनं रत्नोपदां प्रेषितवान् । वरयित्रीम् । अत्र “अतः" [ ८२ ] इत्यस्य लुक् ॥
आटिटत् । इत्यत्र "णेरनिटि" [ ८३ ] इति गेलृक् ॥ अनिटीति किम् । वरयित्रीम् ॥ अगणिते. । प्रेपितवान् । इत्यत्र “से टूयोः" [ ८४ ] इति णेलृक् ॥
स्पृहयालुः स्पृहयाय्यं वरयामास यं सखी ।
भूमण्डयन्तो घोषेण गदयित्नुनै सोसि किम् ॥ १६४ ॥ १६४. स्पृहयालुरभिलापुका सती सख्यस्मद्वयस्या स्पृहयाय्यं स्पृहयाँलं यं कर्ण वरयामांसेप्सामास स त्वं कर्णः किं नासि । कर्ण एवं त्वमित्यर्थः । यतः कीदृक् त्वम् । भूमण्डयन्तो रूपादिगुणातिशयेन पृथ्व्या भूषणम् । तथा महापुरुषत्वाद्वोषेण कृत्वा गयिलुमेंघो मेघगम्भीरवर इत्यर्थः ।।
वरयामास । मण्डयन्तः । स्पृहयालुः । स्हैयाय्यम् । गदयिनु । अत्र "आमन्त" [८५] इत्यादिना णेरयादेश ॥
१ए "शेवाटि.
१ए त्राया पिता के . २ ए वा तथागणिते ३ ए होपय. ४ ए टिवत् ५ ए डी यालु य ६ डी मासप्मा'. ७ सी डी यतो रू. ८ एगुणोनि ९ ए यितुमें. १० सी यन्त । स्पृ ११ ए याय्यतोरू. १२ ए बी सी यित्नु । म.