SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ ०४८ व्याश्रयमहाकाव्ये [ कर्णराजः] नृपानवगणय्यान्यान्खेदं प्रापय्य नः सखी। . कर्ण प्राप्य मनोत्रागादपमित्य वचोसि किम् ॥ १६५ ॥ १६५. नोस्माकं सख्यत्र गूर्जरत्रायामागात् । कि कृत्वा । अन्यानृपानुद्वोढुमिच्छून् राज्ञोवगणय्यावज्ञाय । अत एव तान्खेदं प्रापय्य ततो मनः स्वचित्त कर्ण प्राप्य नीत्वानुगगेण कर्ण मनसि कृत्वेत्यर्थः । तस्माद्वचोहं कर्ण इति वचनमप्रमित्याप्रतिदाय किमसि किमिति तिष्ठसि । प्रतिवचनं दत्स्वेत्यर्थः ॥ अप्रमाय करं कर्णश्चेत्सराजय्यतां भजेत् । अयशोकय्यमक्षय्यमेपा प्रक्षीय दास्यति ॥ १६६ ॥ १६६. चेत्कर्णः करमप्रमायैतत्करग्रहणपूर्व स्वपाणिमदत्वैतामपरिणीयेत्यर्थः । स्मराजय्यतां स्मरस्य कतुर्जेतुमशक्यतां भजेद्धातिशयात्स्मरेण जेतुमशक्यो यदि स्यादित्यर्थः । तदेषा कन्या प्रक्षीय विनश्यायशो दास्यत्यर्थात्कर्णस्य । किभूतम् । अक्रय्यमकस्मादुपनतमित्यर्थः । अक्षय्यमनेकावदातैरपि क्षेतुमशक्यम् ।। अवगणय्य । इत्यत्र "लघोर्यपि" [ ८६ ] इत्यम् ॥ प्रापय्य प्राप्य । इत्यत्र “वामोः" [ ८७ ] इति वाय् ॥ अप्रमित्य अप्रमाय । इत्यत्र "मेडो वा मित्" [८८ ] इति वा मित् ॥ प्रक्षीय । इत्यत्र “क्षेः क्षी(क्षी:)" [ ८९ ] इति क्षीः ॥ अक्षय्यम् । अजय्यताम् । अत्र "क्षय्यजेय्यौ" [९०] इत्यादिना निपात्यौ ॥ ऋय्यम् । इति "क्रय्यः क्रयार्थे" [ ९१ ] इति निपात्यम् ॥ १ए 'श्वेत्सरा'. तदेषा कन्या तमित्यर्थः । त्वथात्कर्णस्य । कि - १ ए जरावा. २ एबी सिकृत्येत्य'. ३ बी सी किमि . ४ सी डी कर. ५ ए स्वप्राणि'. ६ डी णीयो इ. ७ ए वी डी अनव. ८ ए त्यव ल. ९ वी वामोतिरिति. १० ए वाइय्. सी वाडय. ११ डी क्षः क्षी. १२ सी 'म् । मजय्यम् । म. १३ ए °जयो क्षय्य इ. १४ बी ग्यौ क्षय्य ई.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy