SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता १२१ मोहेन वा जायते तदा यः साधुः आसन्नभव्यजीवस्तं परिणाम परित्यजति तस्यैव द्वितीयं व्रतं भवतीति । "व्यक्तिव्यक्तं सत्यमुच्चै पन् यः । वर्गस्त्रीणां भूरिमोगैकभाक् स्यात् ।। अस्मिन् पूज्यः सर्वदा सर्वसद्भिः, सत्यात्सत्यं चान्यदस्ति व्रतं किम् ॥" अलीकफलमुपदर्शयति यथा"मन्मनत्वं काहलत्वं, मूकत्वं मुखरोगिताम् । वीक्ष्यासत्यफलं कन्यालीकाद्यसत्यमुत्सृजेत् ॥" . "मूकाजडाश्च विकला, वाग्धीना वाम्जुगुप्सिताः। पूतिगन्धमुखाश्चैव, जायन्तेऽनृतभाषिणः ॥" पुनश्च प्रतिषेधमाह- . . "सर्वलोकविरुद्धं यद्यद्विश्वसितघातकम् । यद्विपक्षश्च पुण्यस्य, न वदेत्तदसूनृतम् ॥" पुनश्च"असत्यतो लघीयस्त्वमसत्याद्वचनीयता । अधोगतिरसत्याच्च, तदसत्यं परित्यजेत् ॥" .. "असत्यवचनं प्राज्ञः, प्रमादेनापि नो वदेत् । श्रेयांसि येन भज्यन्ते, वात्ययेव महाद्रुमाः॥" ॥ यदाहुमहर्षयः सय्यम्भवाः, दशबैकालिके । "अइअम्मि य कालम्मि, पचुप्पण्णमणागए, .. ", जमलु तु न जाणेज्जा, एवमेअं ति णो वए।" (अतीते च काले, प्रत्युत्पन्नमनागते, यमर्थ तु न जानीयात् , 'एवमेतत् इति नो वदेत् ।)
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy