SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः । महामोहेः-प्रिये ! स्मर्यते सा हि वामोरु! च्युता या हृदयाद् बहिः । मञ्चित्तभित्तौ भवती सालभञ्जीव राजते ॥ ३६ ॥ मिथ्यादृष्टिः - (क) महप्पसादो। महामोहः -- यथैव प्रकाशितैरङ्गैः सर्वत्र विचरसि तथैव प्रवर्तितव्यम् । अन्यच्च दास्याःपुत्री श्रद्धा विवेकेन सहोपनिषदं संयोजयितुं कुट्टिनीभावं प्रतिपन्ना । ततः - प्रतिकूलामकुलजां पापां पापानुवर्तिनीम् । केशेष्वाकृष्य तां रण्डां पाषण्डेषु निवेशय ॥ ३७॥ (क) महान् प्रसादः । न खलु भावानुबन्धः प्रेमा कालेनापि विघटते । आज्ञापयतु भर्ता किन्निमित्तं भर्ना स्मृतास्मि । ननु किमर्थमेवमुच्यते । प्रिये ! व्यवहितार्थविषया खलु स्मृतिः । त्वं तु मञ्चित्तभित्तौ कृत्रिमचित्रविचित्रा पुत्रिका स्त्रीव विराजसे । अतस्त्वामपरोक्षां कथं स्मरामीत्येतदाह-स्मर्यत इति ॥ ३७ ॥ मिथ्यादृष्टिः । महान् प्रसादः । दास्याः दौसेर्याः । कुट्टिनी नाम प्रणयकलहकलुषितदम्पत्योः संबोधिको मञ्जुलभाषिणी शम्भली भण्यते । ततः किमिति तत्राह - तत इति । प्रतिकूलाम् अस्मद्विद्वेषिणीम् अकुलजामकुलीनां कुलक्षयप्रवृत्तविवेकाद्यनुसरणात् पापां पापानामनुसरणादेव पापानुवर्तिनी तां रण्डां विधवां पाषण्डागमष्वेव सम्पादयेत्यर्थः ॥ ३७ ।। . १. 'हः- स्म', २. 'आ' ख. पाट:. ३. 'तली स्त्री' ख. घ. पाठः, ४. 'दासभार्यायाः।' ख. ग. पाठः. ५. 'षीकृत' घ. पाठः ६. 'का श' ग, पाठः. ७. 'प्र', ८. 'नां तेषाम' घ. पाठः.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy