SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽः । तेन कुरुक्षेत्रादिषु तीर्थेषु तावद् देवेन स्वप्नेऽपि विद्याप्रबोधोदयो नाशङ्कनीयः । महामोहः- साधु सम्पादितम् । महत् खलु तत् तीर्थ न्य कृतम् । चार्वाकः-देव! अन्यच्च विज्ञाप्यमस्ति । महामोहः-किं तत। चार्वाकः-अस्ति विष्णुभक्तिर्नाम महाप्रभावा योगिनी। सा तु कलिना यद्यपि विरलप्रचारा कृता, तथापि तदनुगृ. हीतान् वयमालोकयितुमपि न प्रभवामः । तदत्र देवेनावधातव्यमिति । महामोहः - (सभयमात्मगतम्) आः प्रसिद्धमहाप्रभावा मा योगिनी । स्वभावाद् विद्वेषिणी चास्माकं दुरुच्छेड़ा सा । (प्रकाशम्) भद्र! अलननया शङ्कया। कामकोवादिषु प्रति. पक्षेषु कुत्रेयमुदेष्यति । तथापि लघीयस्यपि रिपौ नानवहितेन जिगीषुणा भवितव्यम् । यतः स्वप्नेऽपीति । तेषु तमसो निबिडभावादित्यर्थः । तीर्थ वेदसिद्धान्तः । नैतावता सन्तोषः कार्य इत्याह - अन्यदिति । विरलप्रचारा काचित्कप्रचारा । नन्वविद्यमानकल्पा तर्हि सा, तया का क्षतिरस्माकमिति तत्राह--तदनुगृहीतानिति । तईशक्यप्रतीकारा सत्याह-सभयमिति । आत्मनेर प्रश्वासयति-बलमिति । तथापि - "उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता । समौ हि शिष्टैरामातौ वय॑न्तावामयः स च ॥"
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy