________________
६०
प्रबोधचन्द्रोदये सव्याख्ये
महामोह: :- अथ तत्र कियत् सम्पन्नम् ।
चार्वाकः - देव !
-
व्यतीतवेदार्थपथः प्रथीयसीं यथेष्टचेष्टां गमितो महाजनः । तदत्र हेतुर्न कलिर्न चाप्यहं
प्रभुप्रसादो हि तनोति पौरुषम् ॥ २४ ॥
तत्रौत्तराः पथिकाः पाश्चात्याश्च त्रयीमेव त्याजिताः । शमदमादीनां कैव कथा | अन्यत्रापि प्रायशो जीविकामात्रफलैव त्रयी । यथाहाचार्यः
अग्निहोत्रं त्रयो वेदास्त्रिइण्डं भस्मगुण्ठनम् | बुद्धिपौरु र हीनानां जीत्रिकेति बृहस्पतिः ॥ २५ ॥
भवति तथा अनुमोदितं सम्पादितं दर्शनं यस् स तया । परिपालितस्वामिशासनः खलु धन्यो धनाई इत्यर्थः || २३ ||
व्यतीतो व्यतिक्रान्तो वेदार्थयोः पन्थाः, वेदस्याध्ययनप्रत्र चनादिमार्गः अर्थस्य तु तत्त्वालो चनरूपः, स परित्यक्तो येन महाजनेन स तथा । कथमेतदप्रयत्नेन साधितमिति चेत् तत्राह – प्रभुप्रसाद इति । प्राप्तस्वामिप्रसादेन न किमपि दुष्करमित्यर्थः ॥ २४ ॥
औत्तराः पथिकाः काश्मीरादिदेशजाः बर्बरादयः । पाश्चात्याश्च सिन्ध्वादिदेशजाः तुरुष्कादयः । त्रयीमेवेत्येवकारेण न केवलं वेदपरित्याग एव पाषण्डागमस्वीकारश्चेति दर्शयति ।
(बुद्धि पौरुषहीनानां) बुद्धिहीनानां पौरुषहीनानां च । बुद्धिहीनता नाम परस्वापहरणादशवनयज्ञता । पौरुषहीनता तु बाहुत्रलाभावः
॥ २५ ॥
१. 'र; कृतयो' ल. घ. पाठः.