SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ प्रबोधचन्द्रोदये सव्याल्ये ___ चार्वाकः - धूर्तप्रणीतागमप्रतारितानां मूर्खाणामाशामोदकैरेवयं तृप्तिः । प्रश्य पश्य - क्वालिङ्गन भुजनिपीडितबाहुमूल भनोन्नतस्तनमनोहरमायताक्ष्याः। भिक्षोपवासनियमार्कमरीचिदाहै .. होपशोषणविधिः कुधियां क्व चैकः ॥ २१ ॥ शिष्यः - (क) आचाळिअ! एवं खु तित्थिा आठबन्ति - दुःखमिस्सिदं संसाळसोक्खं पळिहवाणिज्जत्ति । चार्वाकः- (विहस्य) आः, दुर्बुद्धिविलासितमिदं नरपशनाम् । त्याज्यं सुखं विषयसङ्गमजन्म पुंसां दुःखोपसृष्टमिति मूर्खविचारणेषा (क) आचार्य! एवं खलु तीर्थका आलपन्ति - दुःखमिश्रितं संसारसौल्यं परिहरणीयमिति । वासः । सान्तपनं नाम सप्तरात्रोपलक्षणकृच्छ्रविशेषः । तार्तीयेऽहनि नक्तमुक्तिः षष्ठकालाशनम् । प्रभृतिशब्देन कृच्छ्रादयो गृह्यन्ते । प्रतारितानां वञ्चितानाम् । मूर्खाणां स्वप्रयोजनानभिज्ञानाम् । क्वालिङ्गनं क्व वा भिक्षोपवासादयः इत्यजगजान्तरमित्यर्थः ।। आचार्य! एवं खलु तीथिका आलपन्ति - दुःखमिश्रितं संसार सौख्यं परिहरणीयमिति । शास्त्रविद्भिरमिहितत्वात् तदपि श्रद्धेयमेव नन्वित्याशयः। स्वपरप्रयोजनानभिज्ञाः पशवः । पशुत्वमेव दर्शयति - त्याज्यमित्यादि । मूर्खाणां पाना किचारणा चिन्ता, निरूपणेति यावत् ॥ २२ ॥ १. 'रेवमभि' घ. पाटः. - - - - - - - - - - - - -
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy