SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ द्वितीयोमः। पश्य स्वर्गः कर्तृक्रियाद्रव्यविनाशे यदि यज्वनाम् । ततो दावामिदग्धानां फलं स्याद् भूरि भूरुहाम् ॥ १९॥ अपिच । मृतानामपि जन्तूनां श्राद्धं चेत् तृप्तिकारणम् । निर्वाणस्य प्रदीपस्य स्नेहः संवर्धयेच्छिखाम् ॥२०॥ शिष्यः - (क) आचाळिअ! जइ एसो एव्व पुळुअत्थो जं खज्जए पिज्जए अ, ता कित्ति एदेहिं तिथिएहिं संसाळसोक्खं पकिहालिअ अप्पा घोळके.हिं पळाअ-सांतवणसहकाळासणप्पहुदिहिं दुःखेहिं खविज्जदि । (क) आचार्य ! यथेष एव पुरुषार्थो यत् खाद्यते पीयते च, तत् किमित्येते. स्तीथिकैः संसारसौख्यं परिहृत्यात्मा घोरघोरैः पराक-सान्तपन-षष्ठकालाशनप्रभृतिभिर्दुःखैः क्षप्यते । - णिक इत्यर्थः । तदेव द्रढयति-पश्येति । दग्धानां भसितभावं भजतां भूरुहां वृक्षाणां तावत् फलं नोपलभ्यते । दृष्टानुसारेणादृष्टकल्पना प्रभवति यस्मात्, अतः 'स्वर्गकामो यजेतेति वाक्यं यागकर्तव्यताव्याजेन दक्षिणादिद्वारा धनग्रहणाय गीतमिति भावः ॥ १९ ॥ तत्रापि युक्त्यन्तरमाह- अपिचेत्यादिना । निर्वाणस्य विनष्टस्य ॥२०॥ शिष्यः । आचार्य ! यद्येष एव पुरुषार्थो यत् खाद्यते पीयते च, तत् किमित्येतैस्तीथिकैः संसारसौख्यं परिहत्यात्मा घोरपोरैः पराकसान्तपनषष्ठकालाशनप्रभृतिमिदुःखैः क्षप्यते । तीथिकैः शास्त्रकारैः । पराको मासोप " वाल मारा।' क. स. पाट..
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy