SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ११५ चतुर्थोऽहः । एताश्च प्रतिमुकुललग्नमधुपावलीरणितमुखरा जृम्भा - [म्मविगलन्मकरन्दबिन्दुदुर्दिनाः कुसुमसुरभयो नातिदूरे श्यामायमानघनच्छदच्छायातरवो नगरपर्यन्तारण्यभूमयः । त्रै मरुतोऽपि गृहीतपाशुपतव्रता धूलिमुद्धूलयन्तस्तापसा व लक्ष्यन्ते । तथाहि तोयार्द्राः सुरसरितः सिताः परागैरर्चन्तश्च्युतकुसुमैरिवेन्दुमौलिम् । प्रोद्गीतां मधुपरुतैः स्तुतिं पठन्तो नृत्यन्ति प्रचललताभुजैः समीराः ॥ २८ ॥ राजा - ( सानन्दमालोक्य) एषान्तर्दधती तमोविघटनादानन्दमात्मप्रभं चेतः कर्षति चन्द्रचूडवसतिर्विद्येत्र मुक्तेः पदम् । भूमेः कण्ठविलम्बिनीव कुटिला मुक्तावली जाह्नवी यत्रैवं हसतीव फेनपटलैर्वकां कलामैन्दवीम् ॥ २९ ॥ झात्कारोऽनुकरणशब्दः । मूयः शब्दोऽत्यर्थार्थः ॥ २७ ॥ जृम्भारम्भः कुसुमविकाससमयः । घनच्छदं निषिडपलवम् । पर्वतारण्यभूमयः उद्यानभूप्रदेशाः । अन्तर्दधतीति । श्रीविश्वेश्वरालङ्कृतप्रासादमणिकर्णिकयोर्मध्यदिशः । तमोविघटनादिति । तमसोऽज्ञानस्य विनाशनेन । आत्मप्रभम् आत्मप्रवणं चेतः कर्षति सम्पादयति । क्षेत्रप्रसादात् प्रत्यक्प्रावण्यादिारेआत्माकारं प्रवर्तते चित्तमित्यर्थः । तत्र दृष्टान्तमाह – विद्येवेति । बथा परदेवता गुरुप्रसाद बाहुल्यपरिप्रापिता तत्त्वमस्यादिमहावाक्यश्रवणजनेतापरोक्षविद्या कैवल्यमापादयेदेवमेवैषान्तर्दधत्यपि मुक्तिप्रापिकेत्यर्थः । - । - वीयत्रैवं इसतीति । सकलभूमण्डलपरिमण्डन भूता भगवती भागीरणी वयमुपसृत्य यत् क्षेत्रमठचकार, तन्माहात्म्यं किमु वक्तव्यमिति भावः ॥२९॥
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy