SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ??? प्रबोधचन्द्रोदये सन्या सज्ज्यन्तां कुम्भभित्तिच्युतमदमदिरामत्तभृङ्गाः करीन्द्रा युज्यन्तां स्यन्दनेषु प्रसभजितमरुञ्चण्डवेगास्तुरङ्गाः । कुन्तैर्नीलोत्पलानां वनमिव ककुभामन्तराले सृजन्तः पादाताः संचरन्तु प्रसभमसिलसत्पाणयोऽप्यश्ववाराः ॥ - भवतु । कृतमङ्गलाः प्रतिष्ठामहे । ( पारिपार्श्वकं प्रति) सारथिरादिश्यतां साङ्ग्रामिकं रथं सज्जीकृत्योपनयेति ॥ पारिपार्श्वकः - - यदाज्ञापयति देवः । ( इति निष्क्रान्तः ।) राजा - (ततः प्रविशति यथोक्तं रथमादाय सारथिः । ) सारथिः — देव! एष सज्जीकृतो रथः । तदारोहत्वायुष्मान् । (राजा कृतमङ्गलविधिरधिरोहणं नाटयति ।) सारथिः (रथवेगं निरूपयन् ) आयुष्मन् ! पश्य पश्य । उद्धूतपांसुपटलानुमितप्रबन्धधावत्खुराग्रचयचुम्बितभूमिभागाः । निर्मथ्यमान जलधिध्वनि घोरहेष मेते रथं गगनसीम्नि वहन्ति वाहाः ॥ २६ ॥ इयं च नातिदूरे दर्शनपथमवतीर्णा त्रिभुवनपावनी वाराणसी नगरी । अमी धारायन्त्रस्खलितजलझात्कारमुखरा विभाव्यन्ते भूयः शशिकररुचः सौधशिखराः । विचित्रा यत्रोच्चैः शरदमलमेघान्तविलस तडिल्लेखालक्ष्मी वितरति पताकावलिरियम् ॥ २७ ॥ कृत मङ्गल विधिरिति । स्नानशौचाचमनादिपूर्वकसन्ध्योपासनादिदुर्वालमनदर्पण दर्शन हरिचन्दनालेपनंहमतिलगोद | नादिदधिनिरीक्षणालङ्कतकल्याणतरमङ्गल्यस्त्री कराग्रविगलितलाजाद्याभिषेचनवलर्क्षेक्षवक्षःस्पर्शनादिकं कृत्वा रथमधिरोहतीत्यर्थः ।
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy