SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ प्रबोधचन्द्रोदये सव्याख्य सूतः- (परिक्रम्य) आयुष्मन् ! पश्य पश्य तदिदं सुरसरित्परिसरालङ्कारभूतं भगवतः पावनमनादेरादिकेशवस्य विष्णोरायतनम् । राजा- (सहर्षम् ) अये, एष देवः पुराविद्भिः क्षेत्रस्यात्मेति गीयते । अत्र देहं समुत्सृज्य पुण्यभाजो विशन्ति यम् ॥ ३०॥ सूतः-भायुष्मन् ! पश्य पश्य । एते तावत् कामकोषलोभादयोऽस्मदर्शनमात्रादेवेतो देशाद् दूरमतिकामन्ति । राजा- एवमेतत् । तद्भवतु । स्वाभीष्टसिद्धये भगवन्तं नमस्यामः । (रथादवतीर्य प्रविश्यावलोक्य च) जय जय भगवन्! अमरचयचमूचक्रचूडामणिश्रेणिनीराजितोपान्तपाद एष देवः क्षेत्रस्यात्मेति । श्रीमन्नारायणात्मकं श्रीवाराणसीक्षेत्रमित्यर्थः॥३०॥ एवमेतदिति । यथा खलु द्युमण्डलपरिमण्डनभूताखण्डमार्ताण्डमण्डलोद्दण्डविकसद्युतिमण्डलसमुदयसमये नक्तञ्चरा न सञ्चरन्ति, एवमेव विवेकविभावसुविभवविभ्रमविलसद्युतिनिदग्धाः कामादयः पलायन्ते इत्येतच चित्रम् । किन्तु उपपन्नमेवेत्यर्थः । एवं तावदादिकेशवायतनं प्रविष्टो विवेक इत्युक्तम् । इदानी भूरिभक्तिमारावनमितकन्धरः प्रचुरस्नेहबहुमाननिघ्ननिजहृदयः श्रीमन्नारायणे भगवति परमा भक्तिमुद्वहन् दण्डकस्तोत्रेण संस्तुवन् दण्डवधिपत्य नमस्कर्त प्रक्रमते विवेक इत्याह-जय जयेत्यादिना । अमराणां चयो निकरस्तस्य चमूः सेना तस्याश्चकं समूहः तेषां चूडा मौलिः तत्र निममानां मणीना श्रेणिः पतिः त्या नीराजितमभिद्योतितमुपान्तं निकटं यस्य पादयस्य तत् पादयमेवाम्भोजवदतिरमणीयत्वादम्भोजं तस्याग्रालि
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy