SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ प्रबोधचन्द्रोदये सव्याख्ये तद् भवतु । पाषण्डालयेष्वेव तावदनुसरावः । करुणा- सहि! एव्वं होदु। (इति परिकामतः ।) करुणा- (सत्रासम्) सहि ! रक्खसो रक्खसो। शान्तिः - कासौ राक्षसः। करुणा- पेक्ख पेक्ख । जो एसो गळन्तमळपङ्कपि. च्छिळबीभच्छदुप्पेक्खेदहच्छई उळंछिअचिउरभरो मुक्कवसणेवसदुदप्तणो सिहिसिहण्डपिच्छिआहत्थो इदो जेव्व अहिवट्टदि। शान्तिः-सखि ! नायं राक्षसः । निर्वीयः खल्वयम् । वरवरान्वेषिणश्चित्ररथस्य किल मदालसा नाम सुतां पातालकेतुर्नाम कोऽपि दैत्यस्तामचूचुरत् । एवं हन्त बत विषमाः नानाविधाः वामा विपरीता विधिविलासा इत्यर्थः ॥ ४ ॥ एवंविधविधानवैचित्र्येऽपि श्रेयस्कामैर्ननु तथापि श्रद्धासम्पादने ‘यतनायमेवावश्यमित्यभिप्रायेणाह-तद् भवत्वित्यादिना। करुणा । सख्येवं भवतु। करुणा । सखि ! राक्षसो राक्षसः । (करुणा ।) पश्य पश्य । य एष गलन्मलपङ्कपिच्छिलबीभत्सदुप्रेक्ष्यदेहच्छविरुल्लुञ्छितचिकुरभरो मुक्तवसनवेषदुर्दर्शनः शिखिशिखण्डपिन्छिकाहस्त इत एवाभिवर्तते । पिच्छिलो मलपङ्कपङ्किल इत्यर्थः । उल्लुञ्छित उत्साटितश्चिकुरभरः केशभरः । केशंपाशोल्लुञ्छनपर इत्यर्थः । निर्वीर्यो निष्प्रभः। १. 'विधात' क. ख. पाठः. २. 'शोल्लु' क. ग. पाठ:. ३. 'प्रतिभः' ग. गठः.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy