SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ तृतीयोज । करुणा - सहि ! एव्वं भणामि । जइ सञ्चेव्व सद्धा, तदो ण ताए ईरिसी दुग्गई संभावमि । णखु तारिसीओ पुण्णमईओ तारिसं असंभावणिज्जं विपत्ति अणुहोन्दि । शान्तिः-सखि ! किन्नु प्रतिकूले विधातरि न संभाव्यते । तथाहिश्रीदेवी जनकात्मजा दशमुखस्यासीद् गृहे रक्षसो नीता चैव रसातलं भगवती पूर्व त्रयी दानवैः । गन्धर्वस्य मदालसां च तनयां पातालकेतुश्छलाद् दैत्येन्द्रोऽपजहार हन्त विषमा वामा विधेर्वृत्तयः ॥४॥ करुणा । सख्येवं भणामि । यदि सत्येव श्रद्धा, ततो न तस्या ईदृशी दुर्गतिं सम्भावयामि । न खलु तादृश्यः पुण्यमय्यः तादृशीमसंभावनीयां विपत्तिमनुभवन्ति । बाढमेवं, तथापि दुरतिक्रमविक्रमः खलु विधिरिति मन्वाना पाह शान्तिः-सखीति । तदेव दर्शयति- तथाहीति । यथा खलु जनकराजतनया श्रीराघवस्य धर्मपत्नी स्वयमयोनिजा वरवधूजनशिखामणिरपि सम्प्रातरजनीचोरिजनसन्त्रासा, यथा च त्रयी भगवती सकललोकमातापि विगलितपरदुष्पुरुषसम्बन्धकलङ्कपका तात्पर्यप्रणतपरमेश्वरपादारविन्दाप्यसुरवैरिवैभवपरिभवपरैर्हिरण्याक्षमुखैर्दनुसुतैः प्राप्तपातालतला, यथा च चित्ररथनाम्नः कस्यचिद् गन्धर्वस्य प्राप्तयौवनारम्भारब्धमनोभवसम्भारपरिखेदपरिम्लानमानससरसतरसुतारलस्य सान्द्रतरसादसमुद्रीक्षणसम्भ्रान्ताशयस्य, तत्सदृश १. 'दुहिता श्री' ख. पाटः. २. 'चरपरिजन" ग. पाठः, ३. 'रपुरु', ४. 'रिप' ख. घ. पाठः.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy