SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ ५५२ प्रमेयकमलमार्त्तण्डे [ ४. विषयपरि० 'महदेर्तत्' इति प्रत्ययः स्यात् । नं चैवम् । तस्मान्न मन्दतीव्रतानिबन्धनोयं प्रत्ययः, अपि त्वल्प महत्त्वपरिमाणनिबन्धनः, अन्यथा बदरामलकादावपि तन्निबन्धनोसौ न स्यात् । बदरादीनां द्रव्यत्वेन तत्परिमाणसम्भवात्त तन्निबन्धनत्वे शब्देप्यत एवासी ५ तनिबन्धनोस्तु विशेषभावात् । कारणगतस्य चाल्प महत्त्वपरि मार्णस्य शब्दे उपचारात्तथा प्रत्यये बदरादावप्यसौ तथानुषज्येत । तन्नाल्प महत्त्व परिमाणाश्रयत्वमप्यस्यासिद्धम् । नापि सङ्ख्याश्रयत्वम्; 'एकः शब्दो द्वौ शब्दौ बहवः शब्दाः' इति संख्यात्वप्रतीतेर्घटादिवत् । अथोपचाराच्छब्दे संख्याव १० त्वप्रतीतिः ननु किं कारणगता, विषयगता वा शब्दे संख्योपचर्येत ? कारणगता चेत्; किं समवायिकारणगता, कारणमात्रगता वा ? आद्यपक्षे 'एकः शब्दः' इति सर्वदा व्यपदेशप्रसङ्गस्त. स्यैकत्वात् । द्वितीयपक्षे तु 'वहवः शब्दाः' इति व्यपदेशः स्यात्तस्य बहुत्वात् । विषेय संख्योपचारे तु गगनाकाशव्योमादिशब्दा बहु१५ व्यपदेशभाजो न स्युर्गगनलक्षणविषयस्यैकत्वात् । पश्वादीनां च बहुत्वात् 'एको गोशब्द:' इति स्वप्नेपि दुर्लभम् । यथाऽविरोध संख्योपचारः इत्यप्ययुक्तम् स्वयं संख्याववमन्तरेणाविरोधाऽसम्भवात् । किश्च, विपरीतोपलम्भस्य बाधकस्य सद्भावे सत्युपचारकल्पना २० स्यात्, न चाग्नित्व रहित पुरुषस्ये वैकत्वादिसंख्यारहितस्य शब्दस्योपलम्भोस्तीति कथमुपचारकल्पना ? तथपि तत्कल्पने अनुपचरितमेव न किञ्चित्स्यात् । तन्न संख्याश्रयत्वमप्यसिद्धम् । नापि संयोगांश्रयत्वम्; वाय्वादिनाभिहन्यमानत्वात्, पांश्वादिवत् । संयुक्ता एव हि पांश्वादयो वायुनान्येन वाऽभिहन्यमाना २५ दृष्टाः । ते तदभिघातश्च देवदत्तं प्रत्यागच्छतः प्रतिवातेन प्रति १ जलम् । २ भवत्वित्युक्ते सत्याद्दाचार्यः । ३ अल्पत्वमहत्त्वलक्षणः । ४ वदरादिष्वल्पत्व महत्त्वप्रत्ययस्य । ५ अल्पत्व महत्त्वप्रत्ययः । ६ द्रव्येत्वे नाल्पत्व महत्त्व परिमाणस सम्भवस्य । ७ शब्दस्य कारणमाकाशम् । ८ द्रव्यस्य । ९ कार्यरूपे । १० वाल्वादिभेर्यादिकारणमात्रस्य । ११ विषयः = शब्दस्य वाच्यः । १२ वाग्दिग्भूरश्मिवारिवाणाख्यस्वर्गाणां ग्रहणमादिशब्देन । १३ किन्तु गोशब्दा बहवो भवेयुरिति भाव:, न तु गोशब्दो बहुप्रकारः । १४ एकस्मिन्घटे एकः शब्द इत्यादिवत् । १५ पदार्थानाम् । १६ शब्दलक्षणार्थानाम् । १७ असंख्यावत्त्वस्य । १८ एकत्वादिसंख्यारहितस्योपलम्भाभावेपि । १९ संयोगो गुणः । २० शब्दस्य । २१ सन्दिग्धत्वे सत्याह । २२ साधनमसिद्धमित्युक्ते सत्याह । २३ शब्दस्य । 1
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy