SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ सू० ४११० आकाशद्रव्यविचारः त्वलेश यः गृह्यते, 'महान् पटुस्तीवः' इत्यादिप्रतीत्या च तीनत्वम्, न पुनः परिमाणमियत्तानवधारणात् । नहि 'अयं महा छब्दः' इति व्यवस्यन् 'इयान् इत्यरधारयति, यथा द्रव्याणि यद रामलकविल्वादीनि । मन्दतीवता चाचान्तरो जातिविशेषो गुणवृत्तित्वाच्छन्दत्ववत् । तदप्यपेशलम् । यतः कथं शब्दस्य गुणत्वं सिद्धं यतत्तवृत्तित्वासदत्वादेजातिविशेष सिद्धयेत् ? अद्रव्यवाचेत् । तदलि का? अहहत्व पारिजाताधिकारणत्वाञ्चेन्; तदन्थि कुतः ? गुणत्वात् चक्रकालङ्गः । द्रव्यान्तरवदियत्तानवधारणाचेत् ; न; वायुनानेकान्तात् । न खलु विल्ववदरादेरिव वायोरियत्तावधार्यते । वायोरप्रत्यक्षत्वा-१० दियत्ता सत्यपि नावधार्यते, न शब्दस्य विपर्ययात्; इत्याययुक्तम् ; गुणगुणिनोः कथञ्चिदेकत्वे गुणप्रतिभासे गुणिनोपि प्रतिभाससम्भवात् । वायुगतस्पर्शविशेषस्यैवाध्यक्षत्वाभ्युपगमे च 'स्पर्शीत्र शीतः खरो वा' इति प्रतीतिः स्यान्न वायुरिति । न खलु रूपावभासिनि प्रत्यये सोवभासते। स्पर्शविशेषपरिणामस्यैव १५ च वायुत्वात्कथं नास्य प्रत्यक्षेत्वम् ? इयत्ता चेयं यदि परिमाणादन्या कथमन्यस्यानवधारणेऽन्देस्याभावः ? न खलु घटानवधारणे पटाभावो युक्तः । परिमाणं चेत्, तर्हि 'इयत्तानवधारणात्परिमाणं नास्ति' इत्यत्र 'परिमाणं नास्ति परिमाणानवधारणात्' इत्येतावदेवोक्तं स्यात् । अल्पत्वमहत्त्व-२० प्रत्ययतस्तत्परिमाणावधारणे च कथं तदनवधारणं नामामलकादावपि तत्प्रसङ्गात् ? मन्दतीव्रताभिसम्बन्धात्तत्प्रत्ययसम्भवे च मन्दवाहिनि नर्मदानीरे अल्पनेतत् तीव्रवाहिनि च कुल्याँजले १ इयन्ति अवधारयति जनः । २ तीव्रत्वं मन्दत्वं च परिमाणविशेषोऽस्त्वित्युक्ते सत्याह । ३ शब्दे । ४ चक्रकपरिहारार्थ गुणत्वादिति हेतुस्थले इयत्तानवधारणादिति हेतुं योजयति परः। ५ अल्पत्वमहत्त्वपरिमाणाधिकरणत्वेपि वायोरियत्ता नावधार्यते इति भावः। ६ अनैकान्तिकत्वं हेतोः परिहरनाह । ७ प्रत्यक्षत्वात् । ८ इयत्तावावोः। ९ प्रदेशभेदाभावात् । १० ततश्च वायुगतस्य स्पर्शस्य प्रत्यक्षत्वाद्वायोरपि प्रत्यक्षत्वं स्यात् , तथा च वायोरप्रत्यक्षत्वं वक्तमशक्यं तव परस्य । ११ न वायुः शीतः खरो वेति प्रतीतिः । १२ रूपी वायुः। १३ तथा च वायोरभावः स्यात् । १४ कथञ्चिदेकत्वेन । १५ त्वगिन्द्रियग्राह्यत्वम् । १६ इयत्ताया अनवधारणे शब्दस्याल्पत्वमहत्त्वपरिमाणस्याभावः इत्यास्मिन्पक्षे दूषणान्तरम् । १७ इयत्ता परिमाणाद्भिन्नाभिन्ना वेति विकल्पद्वयम् । १८ इयत्तालक्षणस्य । १९ परिमाणलक्षणस्य । २० अन्येति विकल्पे । २१ द्वितीयपक्षे । २२ परेणाङ्गीक्रियमाणे । २३ जलम् । २४ अल्पा सरित् कुल्या।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy