SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ३०२ काव्यमाला | तत्र वयसा मुग्धा यथा 'दोर्मूलावधिसूत्रितस्तनमुरः स्त्रित्कटाक्षे दृशौ किंचित्ताण्डवपण्डिते स्मितसुधासितोक्तिषु भ्रूलते । चेतः कन्दलितं स्मरव्यतिकरैर्लावण्यमङ्गैर्धृतं तन्वङ्गयास्तरुणिम्नि सर्पति शनैरन्यैव काचिद्गतिः ॥' कौशलेन यथा - 'उदितो रसादमथ वेपथुमत्सुदृशोभिभर्तृविधुरं त्रपया । व पुरादरातिशयशंसि पुरः प्रतिपत्तिमूढमपि बाढमभूत || वयसा मध्या यथा 'तरन्तीवाङ्गानि स्खलदमललावण्यजलधौ प्रथमः प्रागल्भ्यं स्तनजघनमुन्मुद्रयति च । दृशोर्लीलारम्भाः स्फुटमपवदन्ते सरलता महो सारङ्गाक्ष्यास्तरुणिमनि गाढः परिचयः ॥' कौशलेन यथा 'स्वेदाम्भःकणिकाचितेऽपि वदने जातेऽपि रोमो मे विस्रम्भेऽपि गुरौ पयोधरभरे कम्पे च वृद्धिं गते । दुर्वारस्मरनिर्भरेऽपि हृदये नैवाभियुक्तः प्रिय स्तन्वङ्गचा हठकेशकर्षणघन श्लेषामृते लुब्धया ||' वयसा प्रौढा यथा 'नितम्बो मन्दत्वं जनयति गुरुत्वाद्द्रुतगते - र्महत्त्वादुद्वृत्तः स्तनकलशभारः शमयति । विकासिन्या कान्त्या प्रकटयति रूपं मुखशशी ममाङ्गानीमानि प्रसभमभिसारे हि रिपवः ॥ काविति । अन्तरे मध्ये वक्तव्यशेषाभिधायकौ श्लोकावन्तरश्लोकौ । वयसा मुग्धेति । वयसासंपूर्णत्यर्थः । एवं कौशलेनापि । वयसा मध्येति । किंचिदसंपूर्णेत्यर्थः । वयसा
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy