SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ३०१ ७ अध्यायः ___ काव्यानुशासनम् । एकभार्योऽनुकूलः। यथा'इयं गेहे लक्ष्मीरियममृतवृष्टिर्नयनयो__ रसावस्याः स्पों वपुषि बहलश्चन्दनरसः । अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥' गूढापराधः शठः। यथा--'एकत्रासनसंगते प्रियतमे-' इति । नायकविजेयं प्रतिनायकमाहव्यसनी पापकृल्लुब्धः स्तब्धो धीरोद्धतः प्रतिनायकः । यथा-रामयुधिष्ठिरयो रावणदुर्योधनौ । नायिकालक्षणमाहतद्गुणा स्वपरसामान्या नायिका त्रेधा । तद्गुणा यथोक्तसंभविनायकगुणयोगिनी नायिका । सा च वकीया,, परकीया, सामान्या, चेति त्रेधा । . खस्त्रीलक्षणमाह सयमूढा शीलादिमती वा । आदिग्रहणादावलज्जागृहाचारनैपुण्यादिपरिग्रहः । शीलं यथा___ 'कुलवालियाए पेच्छह जोवणलायण्णबिब्भमविलासा । पवसन्ति व पवसिए एन्ति ब पिए घरम इन्ति ॥' वयाकौशलाभ्यां मुग्धा मध्या प्रौढेति सा त्रेधा । वयः शरीरावस्थाविशेषः, कौशलं कामोपचारनैपुण्यम् , ताभ्यां मुग्धा। एवं मध्या प्रौढा चेति । १. 'कुलवालिकायाः प्रेक्षध्वं यौवनलावण्यविभ्रमविलासाः । प्रविशन्तीव प्रवसिते आगच्छन्तीव प्रिये गृहमागते ॥ इति च्छाया].
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy