SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ७ अध्यायः ] कौशलेन यथा - काव्यानुशासनम् । 'उद्धृतैर्निभृतमेकमनेकैश्छेदवन्मृगदृशामविरामैः । श्रूयते स्म मणितं कलकाञ्चीनूपुरध्वनिभिरक्षतमेव ॥' धीराधीराधीराधीराभेदादन्त्ये त्रेधा । अन्त्ये मध्याप्रौढे । त्रेधा धीरामध्या, धीराधीरामध्या, अधीरामध्या । एवं प्रौढापि त्रेधा । पोढापि ज्येष्ठकनिष्ठाभेदाद्वादशधा । मध्याप्रौढयोः प्रत्येकं त्रिभेदत्वम् । षड्विधापि ज्येष्ठाकनिष्ठाभेदाद्वादशधा स्वस्त्री भवति । तत्र प्रथममूढा ज्येष्ठा ! पश्चादूढा कनिष्ठा । अथासां क्रोधचेष्टामाह सोत्मासवक्रोक्त्या सवाष्पया वाक्पारुष्येण क्रोधिन्यो मध्याधीराद्याः । मध्याधीराद्यास्तिस्रोऽपि यथासंख्यं सोत्प्रासवक्रोक्त्यादिभिः क्रोधं कुर्वन्ति । तत्र सोत्प्रासवक्रोक्त्या धीरामध्या यथा --- ' न खलु वयंममुष्य दानयोग्याः ३०.३ पिबति च पाति च यासकौ र हस्त्वाम् । व्रज विटपममुं ददख तस्यै भवतु यतः सदृशोश्चिराय योगः ॥' सबाष्पया सोत्प्रासवक्रोक्त्या धीराधीरा यथा - 'बाले नाथ - ' इति । वाक्पारुष्येणाधीरा यथा 'धिङ्मां किं समुपेत्य चुम्बसि बलान्निर्लज्ज लज्जा क्व ते वस्त्रान्तं शठ मुञ्च मुञ्च शपथैः किं धूर्त निर्बाधसे । . खिन्नाहं तव रात्रि जागरतया तामेव या च प्रियां निर्माल्योज्झितपुष्पदाननिकरे का पट्टदानां रतिः ॥' -
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy