SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १६६ काव्यमाला | अत्र वचःशब्देन गीःशब्दो लक्षित इति कल्पितार्थत्वम् । अत्र न केवलं पूर्वपदम्, यावदुत्तरपदमपि पर्यायपरिवर्तनं न क्षमते । जलध्याद तूत्तरपदमेव, वडवानलादौ तु पूर्वपदमेव । यथा है— इति । 'निरूढा लक्षणाः काश्चित्सामर्थ्यादभिधानवत् । क्रियते सांप्रतं काचित्कश्चिन्नैव त्वशक्तितः ॥' वाक्यस्य यथा V‘सपदि पङ्किविहंगमनामभृत्तनयसंवलितं बलशालिना । विपुलपर्वतवर्षिशितैः शरैः प्लवगसैन्यमुलूकजिता जितम् ॥' पङ्किरिति दशसंख्या लक्ष्यते । विहंगमोऽत्र चक्रस्तन्नामभृतो रथाः । दश रथा यस्य तत्तनयौ रामलक्ष्मणौ उलूकजिता इन्द्रजिता कौशिकशब्देनेन्द्रोलूकयोरभिधानमिति कौशिकशब्दवाच्यत्वेनेन्द्र उलूक उक्तः । 3 संदिग्धत्वादसमर्थत्वम् । पदस्य यथा -- 'आलिङ्गितस्तत्र भवान्संपराये जयश्रिया । आशीःपरम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु ॥' अत्र वन्द्यां किं हठहृत में हेलायां किं नमस्यामिति संदेहः । यथा वा - 'कस्मिन्कर्मणि सामर्थ्यमस्य नोत्तपतेतराम् । अयं साधुचरस्तस्मादञ्जलिर्बध्यतामिह || ' अत्र ‘भूतपूर्वे चरट्' इति चरप्रत्यये किं पूर्वे साधुः, उत साधुषु चरतीति संदेहः । क्वचिद्गुणो यथा ‘पश्याम्यनङ्गजातङ्कलङ्घितां तामनिन्दिताम् । कालेनैव कठोरेण ग्रस्तां किं नस्तदाशया ॥' १. 'लक्ष्यते' का० प्र०. २. 'अत्र खलु न' प्रकाशे. ३. कुमारिलभट्टः. ४. 'महिलायां' प्रकाशे.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy