SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ३ अध्यायः काव्यानुशासनम् । १६५ अत्र ध्रुवेवादिशब्दवद्यथाशब्दः संभावनं प्रतिपादयितुं नोत्सहते इत्यवाचकः । यथा वार्थान्तरन्यासे-- 'किमपेक्ष्य फलं पयोधरान्ध्वनतः प्रार्थयते मृगाधिपः । प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ।' अत्र महीयस इत्येकवचनं न सामान्यमर्थरूपं व्यक्तमभिधातुं क्षमते इत्यवाचकत्वम् । बहुवचनस्यैव वीप्सासमानफलस्य स्फुटत्वेन तदभिव्यक्तिक्षमत्वात् । यथा-- 'यावदर्थपदां वाचमेवमाधाय माधवः । विरराम महीयांसः प्रकृत्या मितभाषिणः ॥' सर्वादिशब्दोपादाने त्वेकवचनस्यापि न दोषः । यथा 'छायामपास्य महतीमपि वर्तमाना मागामिनी जगृहिरे जनतास्तरूणाम् । सर्वोऽपि नोपनतमप्यपचीयमानं ___ वर्धिष्णुमाश्रयमनागतमभ्युपैति ॥' वाक्यस्य यथा 'विभजन्ते न ये भूपमालभन्ते न ते श्रियम् । आवहन्ति न ते दुःखं प्रस्मरन्ति न ये प्रियाम् ॥' अत्र विभजतिविभागार्थः सेवने, आलभतिविनाशार्थे लाभे, आवहतिः करोत्यर्थो धारणे, स्मरतिविस्मरणार्थः स्मरणेऽवाचकः । कल्पितार्थत्वादसमर्थम् । पदस्य यथा 'किमुच्यतेऽस्य भूपाल मौलिमालामहामणेः । सुदुर्लभ वचोबाणैस्तेजो यस्य विभाव्यते ॥ १. 'दसमर्थत्वम्' स्यात्.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy