SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ३ अध्यायः] काव्यानुशासनम् । रतिविलुलितवन्धे केशपाशे सुकेश्याः ___ सति कुसुमसनाथे कं हरेदेष वहीं ॥' एषु साधनवायुविनाशशब्दा व्रीडादिव्यञ्जकाः । वाक्यस्य यथा 'भूपतेरुपसर्पन्ती कम्पना वामलोचना । तत्तत्प्रहणनोत्साहवती मोहनमादधौ ॥' कम्पना सेना, वामं शत्रु प्रति विरुद्धं वल्गु च । अत्रोपसर्पणप्रहणनमोहनशब्दा ब्रीडादायित्वादश्लीलाः ।। तेऽन्यैर्वान्तं समश्नन्ति परोत्सर्ग च भुञ्जते । इतरार्थग्रहे येषां कवीनां स्यात्प्रवर्तनम् ॥' . अत्र वान्तोत्सर्गप्रवर्तनशब्दा जुगुप्सादायिनः । 'पितृवसतिमहं व्रजामि तां सह परिवारजनेन यत्र मे । भवति सपदि पावकान्वये हृदयमशेपितशोकशल्यकम् ॥ पावकेन पवित्रेणाग्निना च । अत्र पितुर्ग्रहमित्यादौ विवक्षिते श्मशानादिप्रतीतावमङ्गलार्थत्वम् । कचिद्गुणो यथा-- सुरतगोष्ठयां 'यथैः पदैः पिशुनयेच्च रहस्यवस्तु' इति कामशास्त्रस्थितिः। 'करिहस्तेन संबाधे प्रविश्यान्तर्विलोलिते । उपसर्पन्ध्वजः पुंसः साधनान्तर्विराजते ॥ 'तर्जन्यनामिके श्लिष्टे मध्या पृष्टस्थिता तयोः ।' करिहस्तः............ । संवाधः संघट्टो वराङ्गं च । ध्वजः पताकावचिहं पुंव्यञ्जनं च । साधनं सैन्यं स्त्रीव्यञ्जनं च । तजपा दृढभूमिः" । दीर्घकालेनासेवितो निच्छिद्रासेवितस्तपसा ब्रह्मचर्येण विद्यया श्रद्धया संपा १. 'मध्यमा पृष्टतस्तयोः' इत्युदाहरणचन्द्रिकायां पाठः. २. 'करिहस्त इति प्रोक्तः कामशास्त्रविशारदैः' इति परिभाषितेन' इत्युदाहरणचन्द्रिकायां पाठदर्शनादत्र .कियान्पाठस्त्रुटितः प्रतीयते. . .
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy