SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १३८ काव्यमाला। तथा 'चकाशे पनसप्रायैः पुरी षण्ढमहाद्रुमैः ।' अत्र 'शेप' इति 'पुरीषम्' इति 'महाद्रुम' इति च ब्रीडाजुगुप्सामङ्गलार्थस्मारकत्वादश्लीलाः । कप्टत्वाद्यथा--- 'मञ्जर्युद्गमगर्भास्ते गुर्वाभोगा इमा बभुः ।' वाद्यौचित्येति वक्ष्यमाणत्वादुर्वचकादौ न दोषः। ' यदाहुः 'शुकस्त्रीबालमूर्खाणां मुखसंस्कारसिद्धये । प्रहासासु च गोष्ठीषु वाच्या दुर्वचकादयः ।।' / अवश्यवाच्यस्यानभिधाने न्यूनपदत्वम् । असम्यगाचार्येण योजितमिति प्रकृतोऽर्थः । विरेचकं प्रवर्तकमिति च ॥ अवश्यवाच्यस्येति । अवश्यंभावेनाभिधेयस्य अविनाभावेनौचित्येन वा प्रतीयमानस्या• भिधानेऽपि न दोषः । यथा--'कियन्मानं जलं विप्र जानुदघ्नं नराधिप । तथापीयमवस्था ते न सर्वत्र भवादृशाः ॥' 'यत्र ह्यन्यक्रियापदं नास्ति तत्रास्तिर्भवन्तीपरः प्रथमपुरुषे प्रयुज्यते' इति न्यायादस्तिलभ्यते । यथा च–'मा भवन्तमनल: पवनो वा वारणो मदकल: परशुर्वा । वज्रमिन्द्रकरविप्रसृतं वा खस्ति तेऽस्तु लतया सह वृक्ष ॥' अत्रौचित्याद्धाक्षीदित्यादिक्रिया गम्यते । तथा-'मा धाक्षीन्मा भावीन्मा छैत्सीजातुचिद्वैत भवन्तम् । सुकृतैरध्वन्यानां मार्गतरो खस्ति तेऽस्तु सहलतया ॥' अत्रानल इत्यादीनि कर्तृपदान्यौचित्यात्प्रतीयन्ते ॥ एवं चानभिहितवाच्यत्वं पृथग्दोपत्वेन वाच्यम् । धर्मिधर्मोभयात्मनो वस्तुनः प्रतिपत्तये पुनः स एव शब्दस्तत्पर्यायः सर्वनाम वावश्यं वाच्यमपि नोक्तं यत्र, तत्रापि न्यूनत्वमिति केचिद्वदन्ति । यथा---'द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।' इति । अत्र हि कपालिशब्दो धर्मधर्मोभयवृत्तिः संज्ञिमात्रं वा प्रत्याययेत् । कपालसंबन्धकृतं वा गर्हितत्वमुभयमपि वेति त्रयः पक्षाः । तत्र प्रथमपक्षे विशेषप्रतिपत्तये कपालिनहणमपरमपि कर्तव्यम् , येनास्य गर्हितत्वं प्रतीयेत । द्वितीयपक्षे तस्याश्रयप्रतिपत्तये तेनैव तत्पर्यायेण सर्वनाम्ना वा विशेष्यमवश्यमुपादेयं भवति, येन तस्य विवक्षितार्थसिद्धावार्थों हेतुभावोऽवकल्प्येत । तत्र तेनैवोपादाने यथा-'सततमनोऽनङ्गो १. 'नभिभाने स्वात्. २. 'षत्वेन न वाच्यम्' स्यात्. -
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy