SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ३ अध्यायः ] काव्यानुशासनम् । १३७ 'बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च नः ।' शब्दशास्त्रविरोधोऽसाधुत्वम् । यथा- 'उन्मज्जन्मकर इवामरापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः । गाण्डीवी कनकशिलानिभं भुजाभ्यामाजघ्ने विषमविलोचनस्य वक्षः ॥' अत्र हन्तेर्नाकर्मकत्वम्, न स्वाङ्गकर्मकत्वमित्यात्मनेपदाप्राप्तेः 'आजघ्ने' पदमसाधु ॥ | 'न दोषोsनुकरणे' इति वक्ष्यमाणत्वात् 'पश्यैष च गवित्याह - ' इत्यत्र न दोषः । अथ त्रयोदशवाक्यदोषानाहविसंधिन्यूनाधिको क्तास्थानस्थपदपतत्प्रकर्षसमाप्तपुनरात्ताविसगहतवृत्त संकीर्णगर्भितभग्नप्रक्रमानन्वितत्वानि वाक्यस्य । दोषा इति वर्तते । तत्र संधिः स्वराणां समवायः संहिताकार्येण द्रवद्रव्याणामिवैकीभावः, कवाटवत्स्वराणां व्यञ्जनानां च प्रत्यासत्तिमात्ररूपो वा । तस्य विश्लेषादश्लीलत्वात्कष्टत्वाच्च वैरूप्यं विधित्वम् । विश्लेषाद्यथा -- 'कमले इव लोचने इमे अनुबध्नाति विलासपद्धतिः । ' 'लोलालकानुविद्धानि आननानि चकासति ।' संहितां न करोमीति स्वेच्छा सकृदपि दोषः । प्रकृतिस्थत्वविधाने त्वसकृत् । 'संहितैकपदवत् पादे अर्धान्तवर्जम्' इति हि काव्यसमयः । अश्लीलत्वाद्यथा— 'विरेचकमिदं नृत्यमाचार्याभास जितम् ।' अत्र 'विरेचकम्' इति जुगुप्सा । 'या' इति डा | : म्लेच्छेषु त्वेतदेवोचितम् । तथा नागरेषु यदुचितं तदेव ग्राम्येष्वनुचितमिति । यथा - 'परिभ्रमन्मूर्धजषट्पदाकुलैः स्मितोदयादर्शितदन्त केसरैः । मुखैश्चलत्कुण्डलरमिरञ्जितैर्नवातपामृष्टसरोजचारुभिः ॥' गोपीनां हि ग्राम्यत्वात्कनककुण्डलान्यनुचितानीति । एवं कालादावप्युन्नेयम् ॥ विरेचकमिति । विगतं ग्रीवादीनां रेचकं भ्रमणं यत्र । १. 'नित्यं संहितैकपदवत्यादेष्वर्धा-' इति वामनकाव्यालंकारसूत्र: ૧૯
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy