SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ २ अध्यायः ] यथा व्याध्यादेग्लानिर्वैवर्ण्यादिकृत् । व्याधिमनस्ताप निधुवनोपवासक्षुत्पिपासाध्वलङ्घननिद्रा च्छेदातिपानतपोजराकलाभ्यासादिभ्यो बलापचयो ग्लानिः । तां वैवर्ण्यक्षामनेत्रकपोलोक्तिश्लथाङ्गत्वप्रवेपनदीनसंचारानुत्साहादिभिर्वर्णयेत् । काव्यानुशासनम् | 'किसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः । ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव वर्मः केतकीगर्भपत्रम् ॥' दौर्गत्यादेर्दैन्यममृजादिकृत् । दौर्गत्यमनस्तापादिभ्योऽनौजस्यं दैन्यम् । तन्मृ॒जात्यागगुर्वङ्गताशिरः प्रावणादिभिर्वर्णयेत् । प्रः यथा- 'अस्मान्साधु विचिन्त्य संयमधनानुचैः कुलं चात्मनस्त्वय्यंस्याः कथमप्यबान्धवकृतां प्रेमप्रवृत्तिं च ताम् । सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या च या भाग्याधीनमतः परं न खलु तत्स्त्रीबन्धुभिर्याच्यते ॥' यथा ९३ व्यायामादेः श्रमोऽङ्गभङ्गादिकृत् । व्यायामाध्वगत्यादिभ्यो मनः शरीरखेदः श्रमः । सोऽङ्गभङ्गमर्दनमन्द [क्रमास्यविकूणनादिभिर्वर्णयेत् । 'अलसलुलितमुग्धान्यध्वसंतापखेदादशिथिलपरिरम्भैर्दत्तसंवाहनानि । मृदुमृदितमृणालीदुर्बलान्यङ्गकानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥' १. 'ऽङ्गमर्द' भरतः. -
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy