SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । दत्त्वा पीलुशमीकरीरकवलाखेनाञ्चलेनादरा दुन्मृष्टं करभस्य केसरसटाभारामलग्नं रजः ॥' विद्यादेर्गोऽसूयादिकृत् । विद्याबलकुलैश्वर्यवयोरूपधनादिभ्यः परावज्ञा गर्वः । तमसूयामर्षपारुप्योपहासगुरुलङ्घनाधिक्षेपनेत्रगात्रविकृत्यनुत्तरदानशून्यावलोकनाभाषणैर्वर्णयेत्। यथा 'ब्राह्मणातिक्रमत्यागो भवतामेव भूतये । जामदग्न्यस्तथा मित्रमन्यथा दुर्मनायते ॥' चौर्यादेरौत्र्यं वधादिकृत् । चौर्यद्रोहासत्प्रलापादिभ्यश्चण्डत्वमौग्यम् । तद्वधबन्धताडननिर्भर्त्सनादिभिर्वर्णयेत् । यथा-- 'उत्कृत्योत्कृत्य गर्भानपि शकलयतः क्षत्रसंतानरोषा___ दुद्दामस्यैकविंशत्यवधि विशसतः सर्वतो राजवंशान् । पित्र्यं तद्रक्तपूर्णहृदसवनमहानन्दमन्दायमान क्रोधानेः कुर्वतोहेन खलु न विद्वितः सर्वभूतैः स्वभावः ॥' शब्दादेः प्रबोधो जम्भादिकृत। .. शब्दस्पर्शखमान्तः स्वमजल्पननिद्राच्छेदाहारपरिणामादिभ्यो विनिद्रत्वं प्रबोधः । स च जम्भणाक्षिमर्दनभुजक्षेपाङ्गुलिस्फोटनशय्यात्यागग्रीवाङ्गवलनादिभिर्वर्ण्यते । यथा'प्रत्यग्रोन्मेषजिला क्षणमनभिमुखी रत्नदीपप्रभाणा मात्मव्यापारगुर्वी जनितजललवाजम्भणैः साङ्गभङ्गैः । नागाकं मोक्तुमिच्छोः शयनमुरुफणाचंक्रवालोपधानं निद्राच्छेदोऽभिताम्रा चिरमवतु हरेर्डष्टिराकेकरा वः ॥ .
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy