SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् ।। २ अध्यायः] लबाष्पस्खलद्दतिम भाषणरोमोगमादिभिरुत्तमानाम्, हास्यगीतस्रस्ताकुलभुजक्षेपव्याविद्धकुटिलगत्यादिभिर्मध्यमानाम् , अस्मरणधूर्णनस्खलद्गमनरुदितच्छदितसन्नकण्ठनिष्ठीवनादिभिरधमानां वर्णयेत् । तथा च 'उत्तमाधममध्येषु वर्ण्यते प्रथमो मदः । द्वितीयो मध्यनीचेषु नीचेष्वेव तृतीयकः ॥' यथा- . ___ 'सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु । . . गन्तुमुद्यतमकारणतः स द्योतयन्ति मदविभ्रममासाम् ॥' विरहादेर्मनस्तापो व्याधिMखशोषादिकृत् । विरहाभिलाषादिभ्यो मनस्तापो व्याधिहेतुत्वान्याधिः । तं मुखशोषस्रस्ताङ्गतागात्रविक्षेपादिभिर्वर्णयेत् । यथा-- 'मनोरोगस्तीव्र विषमिव विसर्पत्यविरतं प्रमाथी निधूमं ज्वलति विधुतः पावक इव । हिनस्ति प्रत्यङ्ग ज्वर इव बलीयानित इतो न मां तातस्त्रातुं प्रभवति न चाम्बा न भवती ॥' क्लमाना जृम्भादिकृत् ! _क्लमश्रममदालस्यचिन्तात्याहारखभावादिभ्यो मनःसंमीलनं निद्रा । तां जम्भावदनगौरवशिरोलालननेत्रघूर्णनगात्रमर्दोच्छसितनिःश्वसितसन्नगात्रताक्षिनिमीलनादिभिर्वर्णयेत् । यथा 'निद्रानिमीलितहशो मदमन्थराणि नाप्यर्थवन्ति न च यानि निरर्थकानि । अद्यापि मे मृगदृशो मधुराणि तस्या स्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥ '१. 'गौरवशरीरालालन' इति भरतः. १२ -
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy