SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ काव्यमाला | अकार्यकरणज्ञानादेवींडा वैवर्ण्यादिकृत् । { | अकार्यकरणज्ञानगुरुव्यतिक्रमप्रतिज्ञाभङ्गादे श्वेतःसंकोचो व्रीडा । तां वैवर्ण्यधोमुखविचिन्तनभ्रूविलेखनवस्त्राङ्गुलीय कर्णस्पर्शननखनिस्तोदनादिभिर्वर्णयेत् । यथा 'दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कानि न चकार लज्जया || ' इष्टानिष्टदर्शनादेर्जाड्यं तूष्णींभावादिकृत् । इष्टानिष्टदर्शनश्रवणव्याध्यादिभ्योऽर्थाप्रतिपत्तिर्जाड्यम् । तत्तूष्णीं - भावानिमिषनयननिरीक्षणादिभिर्वर्णयेत् । ८८ यथा 'एवमालि निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति । सा सखीभिरुपदिष्टमाकुला नास्मरत्प्रमुखवर्तिनि प्रिये ॥ कार्यभङ्गाद्विषादः सहायान्वेषणमुखशोषादिकृत् । उपायाभावनाशाभ्यां प्रारब्धस्य कार्यस्य भङ्गान्मनः पीडां विषादः । तं सहायान्वेषणोपायचिन्तनोत्साहविघातवैमनस्यादिना उत्तममध्यमानाम्, मुखशोषजिह्वासृक्कलेहननिद्राश्वसितध्यानादिभिरधमानां वर्णयेत् । यथा- 'व्यर्थे यत्र कपीन्द्रसख्यमपि मे क्लेशः कपीनां वृथा प्रज्ञा जाम्बवतो न यत्र न गतिः पुत्रस्य वायोरपि । मार्गे यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः सौमित्रैरपि पत्रिणामविषयस्तत्र प्रिया क्वापि मे ॥' मद्योपयोगान्मदः स्वापहास्यास्मरणादिकृत् । मद्यपानादानन्दसंमोहयोः संगमो मदः । तं स्वापस्मितगानकिंचिदाकु व्यभिचार्यन्तरं संभाव्यते । तद्यथा पुरुषस्य उन्मादे वितर्कचिन्तादि । तत्रापि रतिस्थायि - भावस्यैव व्यभिचार्यन्तरयोगः स केवलममात्यस्थानीयो नोन्मादेन कृतोपराग इति ।
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy