SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । . निद्रोद्भवं सुप्तमुत्स्वमायितादिकृत् । निद्रोद्भवमित्यनेन निद्राया एव गाढावस्था सुप्तमित्याह । तदुत्स्वमायितोच्छूसितनिःश्वसितसंमोहनादिना वर्णयेत् । ९० यथा- 'एते लक्ष्मण जानकीविरहितं मां खेदयन्त्यम्बुदा मर्माणीव विघट्टयन्त्यलममी क्रूराः कदम्बानिलाः । इत्थं व्याहृतपूर्वजन्मचरितो यो राधया वीक्षितः से शङ्कितया स वः सुखयतु स्वप्नायमानो हरिः ॥' इष्टानुस्मरणादेरौत्सुक्यं त्वरादिकृत् । इष्टानुस्मरणदर्शनादेर्विलम्बा सहत्वमौत्सुक्यम् । तत्त्वरानिःश्वसितो|च्छूसितकार्थमनः शून्यतादिगवलोकनरणरणकादिभिर्वर्णयेत् । यथा- 'आलोकमार्ग सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः । बद्धुं न संभावित एव तावत्करेण रुद्धोऽपि हि' केशपाशः ॥' लज्जादेरवहित्थमन्यथाकथनादिकृत् । प्रयोदराद लज्जाजैह्यभयगौरवादिभ्यो भ्रूविकार मुखरागादीनामाच्छादनकारिणी चित्तवृत्तिवहित्थमवहित्था वा । न बहिःस्थं चित्तं येनेति । पबेदरा दित्वात् । तदन्यथाकथनावलोकितकथाभङ्गकृतकधैर्यादिभिर्वर्णयेत् । यथा ' एवं वादिनि देवर्षो पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥' चौर्यादेः खपरयोः शङ्का पार्श्वविलोकनादिकृत् । चौर्यपारदार्यादेर्विरुद्धाचरणादनिष्टोत्प्रेक्षा शङ्का । सा च कदाचि - त्वस्मिन् यदा समापराधयोरात्मपरयोः परो राजादिना दण्ड्यते । कदाचित्परस्मिन् यदा विकाराकुलतया कृतदोषत्वेन परः संभाव्यते । सा " १. 'च' समुपलभ्यमानरघुवंशे.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy