SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ २६५ पञ्चपट्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । १८३७ समय॑मानस्तैर्देवैस्तेषामिष्टं वरं ददौ । गन्धर्वैरप्सरोमिश्च गीयमानो मुदा हरिः॥ २७ महर्षिभिः स्तूयमानस्तत्रैवान्तरधीयत । एभिः स्तुत्वा नरो भक्त्या पातरुत्थाय भक्तिमान् २८ ईप्सितां लभते भूमि वरसस्यफलान्विताम् । एतत्ते सर्वमाख्यातं वाराहं वैभवं हरेः॥ नारसिंहं तथा वक्ष्ये शृणु देवि वरानने ॥ २९ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे वाराहावतारकथनं नाम __ चतुःषष्ट्यधिकद्विशततमोऽध्यायः ॥ २६४ ॥ आदितः श्लोकानां समष्ट्यङ्काः-४६३०१ अथ पञ्चषष्ट्यधिकद्विशततमोऽध्यायः । रुद्र उवाचभ्रातरं निहतं ज्ञात्वा हिरण्यकशिपुस्ततः । तपस्तेये महादैत्यो मेरोः पार्थे च मां प्रति ॥ १ दिव्यवर्षसहस्राणि वायुभक्षो महाबलः । जपन्पश्चाक्षरं मत्रं पूजयामास मां शुभे ॥ ततः प्रहृष्टमनसा तमवोचं महासुरम् । वरं वृणीष्व दैतेय यत्ते मनसि वर्तते ॥ ततः प्रोवाच देतेयो मां प्रसन्नं शुभानने ॥ हिरण्यकशिपुरुवाचदेवासुरमनुष्याणां गन्धर्वोरंगरक्षसाम् । पशुपतिमृगाणां च सिद्धानां वै महात्मनाम् ॥ ४ यक्षविद्याधराणां च किंनराणां तथैव च । सर्वेषामेव रोगाणामायुधानां तथैव च ॥ सर्वेषामृषिमुख्याना(णा)मवध्यत्वं प्रयच्छ मे ॥ रुद्र उवाचएवमस्त्विति तद्रक्षस्त्वत्वं प्रियदर्शने । मत्तो महावरं प्राप्य स दैतेयो महाबलः ॥ ६ जित्वा महेन्द्रं देवांश्च स त्रैलोक्येश्वरोऽभवत् । सर्वांश्च यज्ञभागांश्च स्वयमेवाग्रहीदलात् ॥ ७ त्रातारं नाधिगच्छन्ति देवतास्तेन निर्जिताः। तस्यैव किंकराः सर्वे गन्धर्वा देवदानवाः ॥ ८ यक्षाश्च नागाः सिद्धाश्च तस्यैव वशवर्तिनः । उत्तानपादस्य सुतां कल्याणी नाम कन्यकाम् ९ उपयेमे विधानेन दैत्यराजो महाबलः । तस्यां जातो महातेजाः प्रहादो दैत्यराशुभे ॥ १० अनुरक्तो हृषीकेशे गर्भवासेऽपि यो हरौ । सर्वावस्थासु कृत्येषु मनोवाकायकर्मभिः॥ ११ नान्यं जानाति देवेशात्पद्मनाभात्सनातनात् । स काले चोपनीतः सन्गुरुगेहेऽवसत्सुधीः॥ १२ अधीत्य सर्ववेदांश्च शास्त्राणि विविधानि च । कस्मिंश्चित्त्वथ काले च गुरुणा सह दैत्यजः॥१३ पितुः समीपमागत्य ववन्दे विनयान्वितः । तं परिष्वज्य बाहुभ्यां तनयं शुभलक्षणम् ॥ अङ्के निधाय दैत्येन्द्रः प्रोवाचेदं शुचिस्मिते ॥ हिरण्यकशिपुरुवाच। प्रहाद चिरकालं त्वं गुरुगेहे निवेशितः । यदुक्तं गुरुणा वेद्यं तन्ममाऽऽवश्व सुत्रत ॥ १५ रुद्र उवाचइति पृष्टः स्वपित्रा वै प्रह्लादो जन्मवैष्णवः । प्राह दैत्येश्वरं प्रीत्या वचनं कलुपापहम् ॥ १६ १ झ. फ. पिशापाना । २ क. च. सायाश्च । ३ क. ज. झ शुचिम्मितम् ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy