SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ १८३६ महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डे- . रुद्र उवाचइति शापं तयोर्दत्त्वा तत्र तस्थुर्मुनीश्वराः । देवस्तदर्थं ज्ञात्वा च तानाहूय च तावपि ॥ तौ चोत्थायाब्रवीतंत्र भगवान्भूतभावनः॥ भगवानुवाचकृतवन्तौ महावीर्यावपराधं महात्मनाम् । नातिक्रमणीयमिदं भवयां द्वारपालकौ ॥ ६ दासत्वं सप्त जन्मानि युवां भक्तो ममानघौ । अमित्रतां तथा त्रीणि जन्मानि भजतं तु वा ॥७ रुद्र उवाचइत्युक्तौ तौ महावीर्यावब्रूतां परमेश्वरम् ।। जयविनयावूचतु:चिरकालं महीं प्राप्तुमसमर्थो स्वमानद । तस्मात्रीण्येव जन्मानि विद्विदत्वं च भजावहे ॥ हतौ त्वयैव देवेश प्राप्स्यावो भवदन्तिकम् ॥ रुद्र उवाचइत्युक्त्वा द्वारपालौ तौ पूर्व जातौ महाबलौ । कश्यपस्य महावी? दितिगर्भे महासुरौ ॥ १० हिरण्यकशिपुर्येष्ठो हिरण्याक्षः कनिष्ठकः । उभौ तौ लोकविख्यातौ महावीर्यवलोद्धतौ ॥ ११ अप्रमाणशरीरः स हिरण्याक्षो मदोद्धतः । उत्पा(द्धा)ध्य बाहुसाहौः पृथिवीं समहीधराम्॥१२ ससागरां द्वीपयुतां सर्वप्राणिसमन्विताम् । उत्पाट्य शिरसाऽऽधार्य प्रविवेश रसातलम् ।। १३ ततो देवगणाः सर्वे चुक्रुशुभेयपीडिताः। शरणं प्रययुर्देवं नारायणमनामयम् ॥ ततस्तदद्भुतं ज्ञात्वा शङ्खचक्रगदाधरः । वाराहरूपमास्थाय विश्वरूपी जनार्दनः॥ अनादिमध्यान्तवपुः सर्वदेवमयो विभुः । विश्वतःपाणिपाचक्षुर्महादंष्ट्रो महाभुजः ॥ दंष्ट्रयैकया तं दैत्यं जघान परमेश्वरः । [*संचूर्णितमहागात्रो ममार दितिजाधमः ॥ पतितां धरणी दृष्ट्वा दंष्ट्रयोद्धृत्य पूर्ववत् । संस्थाप्य धारयामास शेषे कूर्मवपुस्तदा ॥ तं दृष्ट्वा दैवताः सर्वे क्रोडरूपं महाहरिम् । तुष्टुवुर्मुनयश्चैव भक्तिनम्रात्ममूर्तयः ॥ देवा ऊचुःनमो यज्ञवराहाय नमस्ते [+शतवाहवे । समस्तवेदवेदाङ्गतनवे विश्वरूपिणे ॥ सर्गस्थितिस्वरूपाय सर्वयज्ञस्वरूपिणे । कलाकाष्ठानिमेषाय नमस्ते] कालरूपिणे ॥ भूतात्मने नमस्तुभ्यमृग्वेदवपुषे तथा । सुधात्मने नमस्तुभ्यं सर्वाधाराय ते नमः॥ ऋचः स्वरूपिणे चैव चतुर्वेदमयाय च । ['ओंकाराय नमस्तुभ्यं यजुर्वेदस्वरूपिणे] ॥ २३ नमस्ते वेदवेदाङ्गसाङ्गोपाङ्गाय ते नमः । गोविन्दाय नमस्तुभ्यमनादिनिधनाय च ॥ नमस्ते वेदविदुषे विशिष्टैकस्वरूपिणे । श्रीभूलीलाधिपतये जगत्पित्रे नमो नमः ॥ २५ रुद्र उवाचइत्यादिस्तुतिभिः स्तुत्वा देवं वराहरूपिणम् । अर्चयामासुरात्मेशं गन्धपुष्पादिभिर्हरिम् ।। २६ । * अयं श्लोको झ. फ. पुस्तकस्थः । + धनश्चिहान्तर्गतः पाठः क. ज. झ. फ. एस्तकस्थः । फ. पुस्तकस्थम् । इदमधे क. ज. स. -- १ क. ज. झ. फ. सामवेदाय । २ झ. फ. "दिभिः सरा: । स । -
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy