SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १३५६ महामुनिश्रीव्यासप्रणीतं - [ ६ उत्तरखण्डे माधवे मासि जाह्नव्यां कृतस्नानस्तपोधनम् । आससाद धृष्टबुद्धिः शोकभारेण पीडितः ।। २८ तद्वत्रबिन्दुस्पर्शेन गतपापो हताशुभः । कौण्डिन्यस्याग्रतः स्थित्वा प्रत्युवाच कृताञ्जलिः || २९ धृष्टबुद्धिरुवाच भो भो ब्रह्मन्द्विजश्रेष्ठ दयां कृत्वा ममोपरि । येन पुण्यप्रभावेण मुक्तिर्भवति तद्वद ॥ कौण्डिन्य उवाच ---- शृणुष्वैकमना भूत्वा येन पापक्षयस्तव । वैशाखस्य सिते पक्षे मोहिनी नाम विश्रुता । एकादशी व्रतं तस्याः कुरु मद्वाक्यनोदितः । मेरुतुल्यानि पापानि क्षयं गच्छन्ति देहिनाम् बहुजन्मार्जितान्येपा मोहिनी समुपोषिता ॥ वसिष्ठ उवाच - ३० ३१ ३२ इति वाक्यं मुनेः श्रुत्वा धृष्टबुद्धिः प्रसन्नधीः । व्रतं चकार विधिवत्कौण्डिन्यस्योपदेशतः ॥ ३३ कृते व्रते नृपश्रेष्ठ गतपापो वभूव सः । दिव्यदेहस्ततो भूत्वा गरुडोपरि संस्थितः ॥ जगाम वैष्णवं लोकं सर्वोपद्रववर्जितम् । इतीदृशं रामचन्द्र उत्तमं मोहिनीव्रतम् ॥ नातः परतरं किंचित्रैलोक्ये सचराचरे ॥ ३४ ३५ ( श्रीकृष्ण उवाच - ) यज्ञादितीर्थदानानि कलां नार्हन्ति षोडशीम् । पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत् ॥ ३६ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादान्तर्गत कृष्णयुधिष्ठिरसंवादे वैशाखशुक्लमोहिन्येकादशीमाहात्म्यकथनं नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥ आदितः श्लोकानां समथ्र्यङ्काः -- ३४५२४ अथ द्विपञ्चाशत्तमोऽध्यायः । युधिष्ठिर उवाच ज्येष्ठस्य कृष्णपक्षे तु किंनामन्येकादशी भवेत् । श्रोतुमिच्छामि माहात्म्यं तद्वदस्व जनार्दन || १ कृष्ण उवाच --- साधु पृष्टं त्वया राजलोकानां हितकाम्यया । बहुपुण्यप्रदा ह्येषा महापातकहानिया || अपरा नाम राजेन्द्र अपरा पुत्रदायिनी । लोके प्रसिद्धतां याति अपरां यस्तु सेवते । ब्रह्महत्याभिभूतोऽपि गोत्रहा भ्रूणहा तथा । परापवादवादी च परस्त्रीरतिकोऽपि च ॥ अपरासेवनाद्राजन्विपाप्मा भवति ध्रुवम् । कूटसाक्ष्यं कूटमानं कूटात्कूटं करोति यः ॥ कूटवेदं पठेद्यस्तु कूटशास्त्रं तथैव च । ज्योतिषां गणकः कूटः कूटायुर्वेदको भिषक् ॥ कूटसाक्षिसमायुक्तो विज्ञेया नरकौकसः । अपरासेवनाद्राजन्पापैर्मुक्ता भवन्ति ते ॥ क्षत्रियः क्षात्रधर्म यस्त्यक्त्वा युद्धात्पलायते । स याति नरकं घोरं स्वामिधर्मवहिष्कृतः ॥ अपरा सेवनात्सोऽपि पापं त्यक्त्वा दिवं व्रजेत् । विद्यावान्यः स्वयं शिष्यो गुरुनिन्दां करोति च स महापातकैर्युक्तो निरयं याति दारुणम् । अपरासेवनात्सोऽपि सद्गतिं प्राप्नुयान्नरः ॥ महिमानमपरायाः शृणु राजन्वदाम्यहम् । मकरस्थे रवौ माघे प्रयागे यत्फलं नृणाम् ॥ ७ ሪ १० ११ १ ञ. "पोनिधिः । आ' । २ ४ १ I 1
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy