________________
सारस्वते तृतीयवृत्ती
तथा सुमनीभावः सुचेतीभावः महीकरोति अरूकरोति चक्षूकरोति ।
च्वौ । सलोपश्च विप्रत्यये परे अरुर्मनश्चक्षुश्वेतोरहोरजसां सकारस्य लोपो भवति सलोपे च कृते पूर्वस्य च दीर्घः अकारस्य ईकारः स्थिरस्य मनसः अमनस्त्वेन भवनं अमनीभावः अरूकरोति, चक्षूकरोति, चेतीकरोति, विरहीकरोति, विरजीक रोति । भू मनस् पूर्वः घञ्भावे अत्र चिमत्यये कृते च्चौ सलोपश्चेति सलोपे कृते अकारस्य च ईकारः । एवं अपरिखा परिखा कृता परीखीकृता कृ कम० परिखापूर्वः च्चि - प्र० च्वौ दीर्घः ईचास्येति अवर्णस्य ईकारः । वैरिति विलोपः (प्र० ए० ) स्रो० | डाच क्वचिद्वक्तव्यः । अभूततद्भावेऽर्थे क्वचित डाच् प्रत्ययो भवति । अदुःखं दुःखं संपद्यते तत् करोतीति दुःखाकरो - ति । तथा भद्राकरोति ।
५४४
कचित्प्रयोगांतरे । कृभ्वस्ति योगे पर्थेनाम्नो डाच् प्रत्ययो भवति डकारष्टि. लोपार्थः चकारः प्रत्ययभेदज्ञापनार्थः । अदुःखिनं दुःखिनं करोतीति दुःखाकरोति सिद्धमेव दुःखिन् पूर्वः डाच् टिलोपः स्वर० एवं सुखाकरोति सपत्राकरोति मिपाक रोति । भद्राकरणम् । सूत्रम् ।
आतो मनिपूक्वनिपूर्वनिपः । प्रादौ नाम्नि च प्रयुज्यमाने आकारान्ताद्वातोर्मनिपू वनिप् वनिप् इत्येते प्रत्यया भवन्ति । सुष्ठु ददातीति सुदामा । राजन् शब्दवद्रूपम् । खते चपा झसानाम् | अश्वे तिष्ठतीति अश्वत्थामा ।
(
आतोमनिपक्कनिप्वनिपः । आत् ष० ए० ) स्वर० स्रो० मनिप् च क्व निप् च वनिप् च मनिपूक्कनिपूवनिपः (प्र० ब० ) स्वर० स्रो० आकारांताद्धातो मैंनिपूवनिपू वनिप् एते त्रयः प्रत्यया भवति कर्तरि । पकारः पित्कार्यार्थः इकार उच्चारणार्थः, क्वनिप् इत्यत्र ककारः कित्कार्यार्थः । हुदाञ् दाने दा सुपूर्वः सुष्टु ददातीति सुदामा मनिप् प्र० सुदामन् (प्र० ए० ) नोपधायाः इसेपः नाम्नो नोलो० राजन्शब्दवत् साधनार्थः । सूत्रम् ।
स्थामी । इश्व ईश्व ई । दासोमास्थां ह्रस्व इकारो भवति । धागेहापितीनां दीर्घ ईकारो भवति तकारादौ किती हसे परे न क्यपि क्विपि वा । क्वनिप्प्रत्ययः । सुष्टु पिवतीति सु