SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ आत्मनेपदमक्रिया। . ५०९ उपालंभेऽर्थे शपथकरणेऽर्थे शपधातोरात्मनेपदं भवति । वाचा शरीरस्पर्शनमुपालंभः । विष्णोः शपते । शपथं करोति इत्यर्थः । सत्यमेतदिति कथयति । उपालंभे किं । दुष्टं शपति । शापं ददाति । अत्रात्मने पदं न भवति । शनुं शपति । आक्रोशति इत्यर्थः । सूत्रम् । ज्ञाश्रुस्मृशां सान्तानामात् । सप्रत्ययान्तानामषामात्मनेपदं भवति । यः से । जिज्ञासते, शुश्रूषते, सुरुमूर्षते, दिक्षते। ज्ञाश्रुस्मृहशां सांतानामात् । समत्ययांतानामेतेषां धातूनां आत्मनेपदं भवति । तेषां साधनं तु पूर्व कृतम् । सः प्रत्ययः । यः से। इत्यादि । जिज्ञासवे । शुश्रूषते । सुस्मृर्षते । दिक्षते । इत्यादीन्युदाहरणानि । सूत्रम् । अनुपसर्गाजानातेरात्मगामिनि फले आत्मनेपदं वाच्यम् । गां जानीते। अनुपसर्गात् । जानावेर्धातोरात्मगामिनि क्रियाफले सति आत्मनेपदं वाच्य म् । अनेनात्मनेपदम् । गां जानीते इत्युदाहरणम् । सूत्रम् । कर्मव्यतिहारेऽन्यत्र हिंसादेराव । कर्मव्यतिहारेऽर्थे वाच्ये हिंसार्थान्गत्यर्थान्पठजल्पहसाव विहाय इतरेतरान्योन्यपरस्परपदासावे सर्वेभ्यो धातुभ्य आत्मनेपदं भवति । परस्परमेकक्रियाकरणं कर्मव्यतिहारः । श्रद्धा आस्तिक्यबुद्धिः । श्रद्धा व्यतिभवते । परस्परं भवतीत्यर्थः । व्यतिस्ते । विवदन्ते वादिनः । अन्यत्रोति किम् । व्यतिनन्ति, व्यतिगच्छन्ति, व्यतिपठन्ति, व्यतिजल्पन्ति, व्यतिहसन्ति । इतरेतरं परस्परं अन्योन्यं वा व्यतिलुनन्ति ।। कर्मव्यतिहारेऽन्यत्र हिंसादेराव । कर्मव्यतिहारे (स० ए०) कर्मणो व्यतिहारः । विनिमयः । पराभवतो वा कर्मव्यतिहारः। तस्मिन् कर्मव्यतिहारे। अन्यप्र हिंसादेः । आत् कर्मव्यविहारेऽर्थे वाच्यमाने सति हिंसार्थान् गत्यर्थान् धातून पठजल्पहसान् विहाय इतरेतरान्योन्यपरस्परपदामावेऽपि सर्वेभ्यो धातुभ्य
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy