________________
१०८
सारस्वते द्वितीयवृत्ती उद्विभ्यां तपः । उद्विभ्यां परस्याकर्मकस्यात्माङ्गकर्मकस्य वा तपतेरात्मनेपदं भवति । उत्तपते वितपते पाणिम् । अन्यथा महीं वितपत्यकः ।
उद्विभ्यां तपः। उद्विभ्यां (पं० द्वि०) तपः (१० ए०) उत् वि 'एताभ्यामुपसर्गाभ्यां तपतेरकर्मकस्य आत्मांगकर्मकस्य च आत्मनेपदं भवति । उत्तपते विवपते स्वपाणिम् । अन्यथा महीं विवपत्यकः । अत्र न भवति । सूत्रम् ।
उदश्चरस्त्यागे। उत्पूर्वाञ्चरतेस्त्यागेऽर्थ आत्मनेपदं भवति । धर्ममुच्चरते । त्यजतीत्यर्थः । त्यागे किम् । मन्त्रमुच्चरति । 'उदश्चरस्त्यागे। उदः (पं०ए०) चरः (ष०ए०) त्यागे (स०ए०) उदुपसर्गपूर्वस्य चरतेर्धातोस्त्यागेऽथै आत्मनेपदं भवति । धर्ममुच्चरते त्यजति इत्यर्थः । त्यागाभावे मंत्रमुञ्चरति । सूत्रम् । समस्तृतीयायुक्ताच । संपूर्वाञ्चरतेस्तृतीयान्तेन पदेन युतादात्मनेपदं भवति । अन्वेन संचरते। समस्तृतीयायुक्तात् । समः (पं० ए०) तृतीयायुकात् (पं० ए० ) संपूर्वाञ्चरधातोस्तृतीयांतोपपदयुक्तात् आत्मनेपदं भवति । चर गतिभक्षणयोः । संपूर्वस्यास्य आत्मनेपदं । संचरते अश्वेन । अश्वेन इति तृवीयांतमुपपदम् । अन्यथा संचरति अश्वः अत्र न भवति । सूत्रम् ।
व्यवपरिभ्यः क्रीजः । एभ्यः क्रीणातेरात्मनेपदं भवति । विक्रीणीते, अवक्रीणीते, परिक्रीणीते ।
व्यवपरिभ्यः । (पं० ब०) क्रीनः (१० ए०) वि अव परि एभ्य उपसर्गेभ्यः डुक्रीब्धातोरात्मनेपदं भवति । उदाहरणानि । विक्रीणीदे । अवक्रीणीते । परिक्रीणीते । शप उपालम्भे । आक्रोशे च । मूत्रम् ।
शप उपालम् । उपालम्भेऽर्थे शपतेरात्मनेपदं भवति । 'वाचा शरीरस्पर्शनमुपालम्भः । विप्राय शपते । विप्रशरीर स्टशति, शपथं करोतीत्यर्थः । उपालम्भे किम् । दुष्टं शपति । शापं ददातीत्यर्थः।