SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ [ ५७ पूजापद्धतिः । अथ वहृदयकमलमध्ये मूलदेवीं ध्यायेत्- . ॐ उद्यदिनद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् । स्मेरमुखों वरदाभयदानाभीतिकरां' प्रभजे भुवनेशीम् ॥ ... .. .. इति भूलदेवीस्वरूपं ध्यात्वा मानसोपचारैराराध्य, यथाशक्तितो होमादिकं च ... कृत्वा कामकलां च विचिन्त्य तदुपरि श्रीभुवनेश्वरी यथोक्तरूपां ध्यात्वा स्ववामभागे निवेश्य । ____ अथार्त्यपात्रस्थापन- स्ववामभागे षट्कोणान्तर्गतत्रिकोणान्तर्गतबिन्दुबाह्यवृत्तचतुरस्ररूपं मण्डलं विधाय पुनः स्वदः त्रिकोणवृत्तविन्दुमण्डलं कृत्त्वा भृमौ विरच्य तत्राधारशक्तिं प्रपूज्य, तत्राधारं संस्थाप्य तदुपरि अस्त्रमंत्रेणशोधितं .. हृन्मंत्रण पूरितं पात्रं शङ्खादिकं वा संस्थाप्य तत्र तीर्थमावाह्य गन्धादिभिः प्रणवेन सम्पूज्य सूर्यसोमाग्निकलाभिः सम्पूज्य इति धेनुमुद्रां प्रदर्श्य स्वमन्त्रेण च पूजयेत्, इति . सामान्यविधिः । तेन सामान्याय॑जलेन स्ववामभागे कृतमण्डलमभ्युक्ष्य तत्राधारशक्त्यादिक्रमेण पीठपूजां कृत्वा, नम इत्याधारं प्रक्षाल्य मण्डलोपरि संस्थाप्य, रं वह्निमण्डलाय दशकलात्मने नमः, इति सम्पूज्य फडिति मंत्रेण कलशं प्रक्षाल्य कारणेन प्रपूर्य रस्तमाल्यादिना संभूष्य देवीबुद्ध्या संस्थाप्य 'अं अर्कमण्डलाय द्वादशकलात्मने नम' इति संपूज्य ॐ सः चन्द्रमण्डलाय षोडशकलात्मने नम' इति द्रव्यमध्ये सम्पूज्य फडिति संरक्ष्य, हुं. इत्यवगुण्ठय, मूलेन द्रव्यं संवीक्ष्य नम इत्यभ्युक्ष्य मूलेन द्रव्यगन्धमाघ्राय कुम्भे पुष्पं दत्त्वा शापहरी विद्यां जपेत्- . एकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् । कचोद्भवां ब्रह्महत्यां तेन ते नाशयाम्यहम् ॥ १॥ सूर्यमण्डलसम्भूते वरुणालयसम्भवे । अमाबीजमये देवि शुक्रशापाद्विमुच्यताम् ॥ २॥ .. वेदानां प्रणवो बीजं ब्रह्मानन्दमयं यदि । तेन सत्येन ते देवि ब्रह्महत्यां व्यपोहतु ।। ३ ।। इति त्रिपठेत, ॐ ऐं ह्रीं श्रीं वां वी बूं द्रौं व ब्रह्मशापविमोचितायै सुरादेव्यै नमः स्वधा इति त्रिः, ॐ ऐं ह्रीं श्रीं क्रां क्रीं कै क्रौं कः सुरे कृष्णशापं मोचय १ वरदायकुशपाशाभीतिकरां।
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy