SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ [१५५ लघुसप्तशतीस्तोत्रम् पाथोधिनाथतनयापतिरेष शेषपर्यङ्कलालितवपुः पुरुषः पुराणः । त्वन्मोहपाशविवशो जगदम्ब ! सोऽपि व्याघूर्णमाननयनः शयनञ्चकार ॥२॥ त्वत्कौतुकं जननि ! यस्य जनार्दनस्य कर्णप्रसूतमलजौ मधुकैटभाख्यो । तस्यापि यौ न भवतः सुलभौ निहन्तुं त्वन्मायया विकलितौ विलयं गतौ तौ ॥ ३ ॥ यन्माहिषं वपुरपूर्वबलोपपन्नं यन्नाकनायकपराक्रमजित्वरञ्च । यल्लोकशोकजननव्रतबद्धहार्द . तल्लीलयैव दलितं गिरिजे ! भवत्या ॥४॥ यो धूम्रलोचन इति प्रथितः पृधिव्यां' भस्मीबभूव चरणे तव हुकृतेन । सर्वासुरक्षयकृते गिरिराजकन्ये ! मन्ये स्वमन्युदहने कृत एष होमः ॥ ५॥ केषामपि त्रिदशनायकपूर्वकाणां जेतुं न जातु सुलभावपि चण्डमुण्डौ । तौ दुर्मदी सपदि शम्बरतुल्यमूर्ती' मातस्तवासिकुलिशात्पतितौ विशीर्षों ॥६॥ दौत्येन ते शिव इति प्रथितप्रभावो देवोऽपि दानवपतेः सदनं जगाम । .. १.. - ख. प्रथितप्रभावो। ख. दू[ दौ] व्ये च । २. ख, समरे। ३. ख. चाम्बरतुख्यमूर्ते ।
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy