________________
नवरसाः ] नृ० २० को०-उल्लास ४, परीक्षण ३
परस्यानुरागेण शृङ्गारो जायते रसः। ... उक्तिप्रत्युक्तिभेदेन हास्यस्तत्रैव दृश्यते ॥ अत्याकुलतया बाला यदा रोदति मैथुने । करुणस्तत्र विज्ञेयो रौद्रो निष्ठुरताडनात् ॥ ... नखदन्तकराघातैर्वीरो धीरजनप्रियः। ... .. भयाद्विन्दुनिपातस्य भयानकः स उच्यते ॥ १९१ लाला स्वेदः श्रमो मूर्छा वीभत्सो जायते रसः। अद्भुतोऽद्भुतसौख्यत्वात् शान्तो विन्दुनिपातनात् ॥ १९२
॥ इति नवरसाः ॥ ॥ रसनृत्यं च ॥
10
170
यं प्रभुं नैकदेशीयनानानृत्यभिदाविदः ।
राजकन्या रञ्जयन्ति सदानन्दैकमन्दिरम् ॥ १९३ इति श्रीराजाधिराजश्रीकुम्भकर्णमहीमहेन्द्रेण विरचिते संगीतराजे षोडशसाहस्रयां संगीतमीमांसायां नृत्यरत्नकोशे प्रकीर्णकोल्लासे लास्याङ्गपरीक्षणं तृतीयं [ समाप्तम् । ]