________________
शृङ्गारः] नृ० र० को०-उल्लास ४, परीक्षण ३
विभावैर्जनितो भावोऽनुभावैरनुबोधितः। ........ व्यभिचारिभिरास्फीतो रस इत्यभिधीयते ॥ १४७ नटोऽनुकरणत्वेन भावुकः पात्रमुच्यते। सभ्यनायकयोस्तस्याश्रयत्वं मन्यते परे ॥ १४४ इति सर्वमिदं सम्यग् रमणीयतरं मतम् । एवं सति नृपेणोक्तो नृप एव रसाश्रयः । एवं रसाश्रयं सम्यग् राजा सर्वर साश्रयः।
नाग्र(?अग्रे)स्फुरत्सर्वरसः' सम्यगेवं न्यरूपयत् ॥ १५० अथ शृङ्गाररसः। शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः।
10 वीभत्साद्भुतशान्ताश्व नव नाट्ये रसाः स्मृताः॥ १५१ ।। यथा चाह भगवान् भरताचायः सूत्रेण
"विभावानुभावव्यभिचारिलंयोगाद्रसनिष्पत्तिः।" मन्ये गुणागुणविशेषविवेकदक्षः
शृङ्गारमेव सकलेषु रसेषु मुख्यम् । . यत् खीयमर्धमु(?म)पहाय तनोबभार
तत्राद्रिराजतनयाधममोच्यमीशः॥ धर्मार्थकामाः सममेव सेव्या
इतीतिहासस्य च मूलमेषः। शृङ्गारनामा रस इत्यतोऽय___ मादौ मया लक्षणमुच्यतेऽस्य ॥ पुनार्योश्चेष्टितं यच्च रत्युत्थं स्यात्परस्परम् । तदाहुः केपि शृङ्गारं केऽपि त्वपरथा जगुः ॥ १५४ सुखप्रायेष्टसंपन्न ऋतुमाल्यादिसेवकः । पुरुषः प्रमदायुक्तः शृङ्गार इति संज्ञितः ॥ ऋतुमाल्यालङ्कारैः प्रियजनगान्धर्वकाव्यसेवाभिः। उपवनगमनविहारैः शृङ्गाररसः समुद्भवति ॥ नयनवदनप्रसादैः स्मितमधुरवचोधृतिप्रमा(?मो)दैश्च । मधुरैश्चाङ्गविकल्पैस्तस्याभिनयः प्रयोक्तव्यः ॥ संभोगे(?गो) विप्रलम्भेन विना न रतिकारकः। कषायिते हि वस्त्रादौ भूयान् रागो यतो भवेत् ॥ १५८80
1 ABO सर्वसर्वरसः। 2 Verses 159-161 from: ना. शा. A-6. Verses 46-48 ( N. S.).
.
. १५२
20
25