________________
२१४.
5
10
111
15
20
25
नृ० १० को ० - उल्लास ४, परीक्षण ३
उद्ग्राहादिष्वडताले लयः कार्यों विलस्वितः । विकल्पतः कलासाः स्युः खटकामुखपूर्वकाः । सूच्यन्ता हस्तका द्वित्राः कार्या सर्वे ध्रुवे पदे ॥ ॥ इत्यड्डुतालः ॥ ४॥
30
*
यतौ ल्यास्त्रयः प्रोक्ता हस्तकाः षोडश क्रमात् । पद्मकोशादिदोलान्ता',
॥ इति यतिनृत्यम् ॥ ५ ॥
5
प्रतिताले
तु हस्तकाः ॥
कार्याः पुष्पपुटाद्यास्तु चतुरस्रावसानकाः । द्रुतो लयोsध मध्यो वा,
॥ इति प्रतितालनृत्यम् ॥ ६ ॥
अथ नवा ( ? ) [रसा] लिख्यन्ते ।
'तथा स्यादेकतालिके ॥
उत्तानवञ्चिताद्यं तु,
नलिनी पद्मकोशकम् । अथ (a) साने विधायैतद्धस्तषोडशकं परम् ॥ संयुतैर्वियुतैर्वाथ करैर्नृत्यं समाचरेत् ।
मध्ये मध्ये भ्रमरिकां गीतान्ते च प्रदक्षिणम् ॥ निसारुरासकं वाद्यास्तालाः खेच्छाकरः करः । आलापोऽपि सहस्तः स्याल्लयो हस्तानुगः स्मृतः ॥ दूरे पादप्रचारः स्याद् झस्पायामिति तद्विदः । डोम्बडे हस्तको ज्ञेयः खेच्छयानुल्यास्त्रयः ॥ षट्स्वेतेषु च गीतेषु कलासः स्याद्विकल्पतः । कल्पतालविधिज्ञेयो मण्ठकस्येव सरिभिः ॥ ॥ इति देशीगीतनृत्यविधिः ॥
[ नवरसाः ।]
जीयाद्विसदृशी काचिदपूर्वेव सरखती । यस्यां समभवच्चित्रं काव्यरत्नाकरो महान् ॥ ननु कोऽयं रसो नाम पदार्थस्तद्विचार्यते । रस्यते वा सहृदयैः स्वयं वा रस्यते रसः ॥
[ अडतालः
१३७
१३८
१३९
१४०
१४१
१४२
१४३
१४४
१४५.
१४६