SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १२९ नृत्याङ्गानि] नृ० र० को०-उल्लास ४, परीक्षण ३ - य उदहादिधातूनां समाप्तिं ज्ञापयेदथ। तालताडनभेदोऽसौ ताल इत्यभिधीयते ॥ गीतादौ तु भवेत् कल्पस्तालः कल्पसमापने । मध्ये कलासो विज्ञेयः कैश्चिदेष विधिः स्मृतः॥ ॥ इति देशीनृत्यपरिभाषा ॥ [नृत्याङ्गानि । श्रुतितिं कलासश्च तालश्चेति चतुष्टयम् । 'इति देशीविदः प्राहुत्याङ्गानि समासतः ॥ ॥ इति नृत्याङ्गचतुष्टयम् ॥ [देशीगीतनृत्यविधिः। 10 आलस्यादिविभेदेन देशीनृत्यविधिक्रमः। पृथक् प्रदार्शतः कैश्चित् स एवानोपदिश्यते ॥ रङ्गप्रवेशे सजाते पार्श्वयोश्चतुरः करान् । अग्रत[:] षोडश त्यक्त्वा नर्तक्या गायकैस्ततः॥ १३१ ।। आलप्तौ क्रियमाणायां नर्तकी वामपाणिना। .. 15 धृत्वा चेलाञ्चलं दक्षे पताकं दधती करे । कलासैहावभावाभ्यां युतं भ्रमणमाचरेत् ॥ .. ॥ इत्यालप्तिनृत्यम् ॥१॥ अथानक्षरताले तु प्रवृत्ते गीतमानतः। संदंशं त्रिपताकाभ्यां नर्तकी नृत्यमाचरेत् ॥ . १३३ 20 ध्रुवनृत्ये यथौचित्यं षट् चत्वारोऽथ पञ्चधा।.... धातुद्वये द्विताली स्यात् कलासो हस्तकस्तथा ॥ १३४ खेच्छयात्र प्रकर्तव्य इति गीतविदो विदुः। षडुक्ता मन्त(?ण्ठ)का येऽत्र त्रिताली तेषु संस्थिता ॥ १३६ ॥ इति मण्ठकनृत्यम् ॥ २॥ पताकाद्याः कपित्थान्ता रूपकेऽष्टकरा ध्रुवम्। . ध्रुवे लयान् विलम्बादीनुद्वाहाभोगयो?तः ॥ ॥ इति रूपकनृत्यम् ॥३॥ .":...... 25 1 Kumbha in भ.को. (पृ. ८५४) drops this line. 2 ABO°दृश्यते । 3 अग्रतः षोडशः पञ्च नर्तक्यो गायकैः सह । Kumbha in भ. को. (पृ० ५७).. 4 to . संमतिः। 5 ABO: °गयोदु ।
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy