________________
10
मुं० २० को०-उल्लास ४, परीक्षण ३ [नांनागतिप्रचारनृत्यम् म्लेच्छानां जातयो यास्तु पुलिन्दाचा द्विजोत्तमाः।.. तेषां देशातुरूपेण कार्य गतिविचेष्टितम् ॥ पक्षिणां श्वापदानां च पशूनां च द्विजोत्तमाः। स्वस्वजातिसमुत्थेन भावेन प्रतियोजयेत् ॥ सिंहःवानराणां च गतिः कार्या प्रयोत्कृभिः । या कृता नरसिंहेन विष्णुना [प्रभविष्णुना] ॥ .. आलीढं स्थानकं कृत्वा गानं तस्यैव चानुगम् । जानूपरि करं त्वेकमपरं चैव वस्थितम् ॥ अवलोक्य दिशः सर्वाश्चिवुकं बाहुभस्तके। गन्तव्यं विक्रमैविप्राः पञ्चतालान्तरोत्थितः ॥ .. : शेषाणामर्थयोगेन गतिं स्थानं प्रयोजयेत् । शेषं स्थानं प्रयोगेषु रजावतरणेषु च ॥ एवमेते प्रयोक्तव्या नराणां गतयो वुधैः । . नोक्ता याश्च मया ह्यत्र ग्राह्याश्चापि हि लोकतः ॥ अतः परं प्रवक्ष्यामि स्त्रीणां गतिविचेष्टितम् । ....... स्त्रीस्थानकानि कार्याणि गतिष्वाभाषणेषु च ॥.... आयतं चावहित्थं च अश्वक्रान्तमथापि वा। ........... स्थानकं तावदेव स्याद्यावचेष्टा प्रवर्तते। .. भग्नं च स्थानकं नृत्ये चारी च समुपस्थिता ॥.... यो विधिः पुरुषाणां हि कार्यों नाट्यप्रयोक्तृभिः।। स्त्री पुंसः प्रकृतिं कुर्यात् स्त्रीभावं पुरुषोऽपि वा ॥... धैर्योदार्येण सत्त्वेन बुद्धया तद्वच कर्मणि । ... स्त्री पुंभावमभिनयैर्दिशेद वाक्यविचेष्टितैः ॥ स्त्रीवेषचरितैर्युक्तः प्रेक्षिताप्रेक्षितैस्तथा। .
मृदुमन्तर्गतैश्चैव पुमान् स्त्रीवृत्तमाचरेत् ॥ गतिप्रका(?चा)रस्तु भयोदितोऽयं . नोक्तश्च योऽभ्यासवशेन साध्यः । ...अतः परं रगपरिक्रमस्य . वक्ष्यामि कक्षान्तरसंविधानम् ॥
॥ इति नानागतिप्रचारनृत्यम् ॥
15
20
2
30-:":::
.
..
..... .1 ABO जायते । of म्लेच्छानां जातयो यास्त । ना. शा. अ. १२ श्लो. १५१.
(G. 0. S.). 2 inserted from. ना. शा. अ. १२ श्लो. १५४, (G.O.S.). .